________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [X. 109 - अत्र पूर्व चन्द्रिकादिकमनादत्य पुनश्चन्द्रिका श्लाघ्यते । निर्लजपुरुषेणार्थो श्रव्यः सद्भिः प्ररूपितः । यः स ग्राम्यो मतो लोके तदुदाहृतिरुच्यते ॥१०९।। ऊरुमूलं सुधाकल्पं शृंगाररसमन्दिरम् ।
कान्ताजनानां चुम्बित्वा कृतार्थोऽयं भवाम्यहम् ॥११०॥ अत्र ग्राम्यत्वं प्रसिद्धम् ।।
क्रमेण वाच्यौ यावर्थो तयोर्व्यत्ययकीर्तनम् । दुष्क्रमः कथितः सद्भिरस्योदाहरणं यथा ॥१११।। जगत्तमो हृतं सर्वं किरणेन स चांशुना (सुधांशुना) ।
दिवाकरेण वा स्वीयरंशुभिः पाटवावहैः ॥११२॥ अत्र पक्षान्तरस्वीकारे दिवाकरेणेति पूर्वं वक्तव्यम् ।
श्लाघ्यस्य वस्तुजातस्य वैयर्थ्यप्रतिपादनम् । व्यर्थीकृत इति ज्ञेयं (ज्ञेयः) तस्य लक्ष्यं प्रकाश्यते ॥११३॥ जगत्तापहरश्चन्द्रस्तमोहारी दिवाकरः ।
आह लादिनी'सुधा चातः किमतः किमतः फलम् ॥११४॥ अत्र श्लाघ्यानां चन्द्रादीनां व्यर्थत्वादाह्लादनं व्यर्थीकृत उच्यते ।
हेतोविना कार्यमुक्तं यत्र सोऽर्थोऽभिऽधीयते। अहेतुकः पुनः तस्य दृष्टान्तकथनं यथा ॥११५॥ यो वातदेही तेनेदं हिमाम्बुहरिचन्दनम् ।
त्यक्तं विलोक्य चैत्रोऽपि तादृशं वस्तु मुञ्चति ॥११६॥ अत्र हरिचन्दनादिवस्तुत्यागे वातदेहिनो वातः कारणम् । चैत्रस्यापि तत्त्यागे हेतुर्नास्ति।
१. सुधातः किं किमतः।
For Private and Personal Use Only