SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - x. 108 ] १०. दोषगुणनिर्णयः अपुष्टकष्टौ संदिग्धव्याहतौ ग्राम्यदुष्क्रमौ । व्यर्थीकृतो' निनिमित्तपुनरुक्तश्च कथ्यते ।।९८॥ अश्लील: साकाङ्क्षः प्रसिद्धिविद्याविरुद्धौ च । उक्तविरुद्धसनियमानियमा विशेषाविशेषपरिवृत्ताः ॥९९।। विध्यनुवादविवृत्तस्त्यक्तपुनःस्वीकृतौ तथा प्रोक्तौ । सहचरभिन्नोऽर्थानामेते दोषाः प्रकीर्त्यन्ते ॥१००। भेद्यपोषकभावेन यत्र नास्ति प्रयोजनम् । उक्तभेदकवृन्दस्य सोऽपुष्टोऽर्थो निरूप्यते ॥१०१।। रूपसौन्दर्यसंपन्नो रणभूमौ भटाग्रणीः । पञ्चास्यविक्रमोपेतो वैरिवर्ग जयत्यसौ ॥१०२॥ अत्र रूपसौन्दर्यसंपन्न इति विशेषणं वैरिजयं न पुष्णाति । अतोऽपुष्टत्वदोषः । दुःखेन जायते योऽर्थः शब्दसंकोचतः स तु । कष्टोऽर्थः कथ्यते सद्भिस्तस्य दृष्टान्त उच्यते ॥१०३।। अब्जेब्जभ्रमणं चित्रं कालदोषात् प्रजायते । अत्र कृच्छ्रेण गम्यत्वात् कष्टार्थ इति कथ्यते ॥१०४।। द्विधा प्रतीयते योऽर्थो निश्चयाभावकारणात् । सोऽर्थः संदिग्ध इत्युक्तस्तत्त्वनिश्चयकोविदः ॥१०५।। पयोधरा नभोवृत्ता द्रष्टव्याः किं सुयोषिताम् । उतोरस्स्थलवृत्तास्ते विदग्धा वदतोत्तरम् ॥१०६॥ अत्र-सस्यार्थी वा कामुको वा वक्ता चेन्निश्चयो भवेत् । योऽर्थो न श्लाघ्यते तस्य प्रकर्षः पुनरुच्यते ।।१०७।। स्वभावमधुरा लभ्या बहवश्चन्द्रिकादयः । रमणीचन्द्रिका स्वान्तचकोराह लादनाय मे ॥१०८।। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy