________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [x.73 - अत्र लावण्येत्यादिपदं सोत्कण्ठ इत्यादिपदेभ्यः पूर्वं वाच्यम् । तस्मादस्थानस्थपदवाक्यम् । यत्र वाक्ये समासोऽयमस्थाने वर्तते यदा। अस्थानस्थसमासं तद्वाक्यमुक्तं तदा बुधैः ॥७३॥ अस्मिन् लोके तमो व्याप्तमिति क्रोधादिवारुणः । भाति पूर्वाचलाग्रस्थतीव्रलोहितमङ्गलः ॥७४॥ अत्र रौद्ररसस्थाने समासबाहुल्यस्यौजोगुणस्य प्रस्तुतत्वात्समासः कर्तव्यः । अस्थाने कविवचने न कर्तव्यः समासः । आदित्यस्य रौद्ररसाभावाद् अस्थानस्थसमासं वाक्यम् । विनापि पदेन येनेदं वाक्यं संपूर्णतां गतम् । तेनाधिकपदमुक्तं वाक्यं दुष्टं विचक्षणः ॥७५॥ चन्द्राकारसमा कोतिर्भानुबिम्बसमं परम् । तेजो विभाति भूपस्य पूर्वपुण्यविपाकतः ॥७६॥ अत्र आकारपदेन बिम्बपदेन च विनापि वाक्यं पूर्ण भवतीत्यधिकपदं वाक्यम्।
यत्र वाक्ये रसो नास्ति तद्वाक्यं रसबिच्युतम् । उच्यते कविभिस्तस्य दृष्टान्तः कथ्यतेऽधुना ॥७७॥ द्विहस्त एककण्ठोऽयं सपादयुगलो नरः।।
डित्थस्य पुत्रो वस्त्रेण युक्तो ग्रामाय गच्छति ॥७८॥ अत्र वाक्यस्य नीरसत्वाज्जातिरप्यलंकारो नास्तीति रसच्युतं वाक्यम् ।
समाप्तपुनरात्तं तद्यस्य यत्समाप्य पुनः स्मृतम् । वाक्यमुक्तं तथा तस्य लक्ष्यरूपं निगद्यते ॥७९॥ स्मरेषुश्चन्द्रिका तस्या लीलालोलावलोकनम् । तनोतु भवतः प्रीति नीलनीरेजमालिका ।।८।।
For Private and Personal Use Only