________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 72] १०. दोषगुणनिर्णयः
ईश आगत उदात्तसंपदा भूषितो रमणि पश्य पश्य ते।
एष जितगुणस्तवाधुना कामसौख्यममितं करोत्यलम् ॥६६॥ अत्र निषिद्धे सन्धौ तथैवासकृद्विहिते सति विश्लेषो दोषः । ततोऽपि विसन्धि वाक्यम् ।
सुभगेशं निजं नारी विलोक्य परिरभ्य चुम्बति प्रमदम् । अरुणामृत अमृताभं (अधरामृतममृताभं) पायं पायं रसाब्धि
मग्नाभूत् ॥६॥ अत्र सुभगेशमिति सुभगमीशं सुष्ठु भगेशमिति व्रीडाकरमश्लीलं संधिकरणं ततोऽपि विसंधि वाक्यम् । गुर्वालोकनपात्रचार्वमलं पूर्वपूर्वसौन्दर्यम् ।
ऊर्वङ्गजगजनिगडं चित्रमिदं भाति कामिनीरूपम् ॥६८॥ अत्र बहुकृत्वः श्लिष्टतया संधेर्दोषः कष्टत्वमुच्यते । ततोऽपि विसंधि वाक्यम् ।
रसानुकूलवर्णातिरिक्तं यद्वाक्यमुच्यते। तदुक्तं प्रतिकूलादिवर्णं काव्यविचक्षणः ॥६९॥ शठेन दृढमालिङ्ग्य नाथेन कठिनस्तनौ ।
कम्बुकण्ठ्या मनःखेदं विभिद्याप्तं स्थिरं सुखम् ॥७०॥ अत्र शृंगाररसे कठिनानां ठादिवर्णानामनुकूलता नास्तीति प्रतिकूलवर्णं वाक्यम् ।
यत्रास्थाने पदं वृत्त तद्वाक्यं दीर्घदर्शिभिः । अस्थानस्थपदं प्रोक्तं तस्य लक्ष्यं निरूप्यते ॥७१॥ तन्वङ्गीतनुमालोक्य सोत्कण्ठो नायको मुदम् । परमां याति लावण्यवाधिचन्द्रकलोपमाम् ॥७२॥
१. रमणी।
For Private and Personal Use Only