SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ शृङ्गारार्णवचन्द्रिका [X. 59 - अत्र केलीति प्रागुक्तं पुनरपि केलीति कथितं ततः कथितपदं वाक्यम्। प्रसिद्धिरहितं यत्र पदमुक्तं तदुच्यते । प्रसिद्धिहतमेतद्धि वाक्यं दुष्टं विचक्षणैः ॥५९॥ पद्माकरे सरोजाक्षी केका हंसा विकुर्वते । तां निशम्य मम स्वान्तं बिभेति मदनातुरम् ॥६०॥ अत्र केकाशब्दो मयूरवाण्यां प्रसिद्धो न हंसध्वनौ इति प्रसिद्धिहतं वाक्यम् । लोकशास्त्रक्रमो नास्ति यत्र तद्वाक्यमक्रमम् । तदुदाहरणं वक्ष्ये तद्वाक्यप्रतिपत्तये ॥६१॥ उद्यानकैरवाम्भोजवृद्धीनां हेतवो मताः । दिवाकरवसन्ताब्जा मोदयन्तु सतां मनः ॥ ६२ ॥ अत्र कमलारामकैरवाणां वृद्धिहेतुत्वे भानुवसन्तचन्द्राणां वाच्ये व्यत्ययकरणादक्रमं वाक्यम् । योगसौगतसांख्यानां मते देवाः प्ररूपिताः । कपिलेश्वरबुद्धास्तु क्षणिकेतरवादिनः ॥६३॥ अत्र स्पष्टमुदाहरणम् । यत्र वाक्ये विरूपत्वं विश्लेषोऽश्लीलता तथा । कष्टता संधिदोषाः स्युः विसंधि तदनुस्मृतम् ॥६४॥ वने आस्ते वरा नारी तदृष्टी अतिचञ्चले। तदूरू अधिकौ भातस्तज्जथे अतिमोहने ॥६५॥ अत्र प्राप्तेऽपि संधौ सकृदविहिते सति, निषिद्धेऽपि संधौ तथैव असकृद्विहिते सति वैरूप्यं दोषः, ततो विसंधि वाक्यम् । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy