________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
-X. 58 ] १०. दोषगुणनिर्णयः
छन्दःशास्त्र यतिः प्रोक्तो यादृशस्तादृशस्य वै । यतेरभावो विद्वद्भिः छन्दोभङ्गो निरूप्यते ॥५०॥ अन्यवाक्यस्य मध्येऽस्ति यत्रान्यद्वाक्यमीरितम् । तद्वाक्यं गर्भितं प्राहुः काव्यालंकारकोविदाः ।।५१।। शृंगाररसवार्राशी निमग्नाङ्गी विलोकते।
रमते प्रमदारामे तरुणी निजनायकम् ।।५२॥ अत्र रमते प्रमदारामे इति वाक्यं वाक्यान्तरमध्यगतमिति गर्भितम्।
बहुवाक्यानां यत्र प्रविशन्ति पदानि मिश्रितानि मिथः । तत् संकीर्णं कथितं क्लिष्टं पुनरेकपदवाक्यवृत्तिः ।।५३।। कुप्यति रमणो नारी नमति रुषं च चरणपङ्कजे त्यजति ।
परिरभ्य मोदतेऽसौ चुम्बति मज्जति वरार्णवे सौख्ये ॥५४॥ अत्र नारी कुप्यति रमणश्चरणपङ्कजे नमति । नारी रुषं त्यजति रमणः परिरभ्य चुम्बति वरासौ मोदते रमणः सौख्येऽर्णवे मज्जतीति बहूनां वाक्यानां पदानि परस्परमिश्रितानि इति संकीर्णम् । एकवाक्यगतपदानि मिथो मिश्रितानि चेत् क्लिष्टं वाक्यं ज्ञेयम् ।
पदेन येन यद्वाक्यं विना न्यूनं भवेद्यदा। तद्न्यूनपदमित्युक्तं तस्य लक्ष्यं प्ररूप्यते ॥५५।। रतिक्रियार्थी रमणी जगन्मोहनरूपिणीम् । विलोक्यालिङ्गय सौख्याब्धौ निमज्जति मनोहरे ।।५६।। अत्र नायक इति विशेष्यपदाभावाद् न्यूनपदवाक्यम् ।
पदस्य कथनं यत्र कथितस्य पुनर्यदा। तदा सद्भिस्तु कथितपदं तद्वाक्यमुच्यते ॥५७।। स्मरकेलिविनोदेन कान्ता कान्तस्य ताडनम् । करोति केलिनीलाब्जकर्णपूरेण चारुणा ॥५८॥
For Private and Personal Use Only