________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 88] १०. दोषगुणनिर्णयः
१०७ अत्र पादत्रये वाक्यं समाप्तं कृत्वा नीलनीरेजमालिकेति पुनः स्वीकृतमिति समाप्तपुनरात्तं वाक्यम् ।
वक्तव्यमेव न प्रोक्तं यत्र वाक्ये तदुच्यते। अनुक्तवाच्यमेतद्धि वाक्यं दुष्टं विशारदैः ।।८।। लीलावलोकनात्तन्वि तव मज्जीवसंपदा ।
जायते किं निमित्तं त्वं मां न पश्यसि सेवकम् ।।८२।। अत्र तव लोलावलोकनादेवेत्येवकारपदं नियमेन वाच्यं तत्पदं नोक्तमित्यनभिहितवाच्यं वाक्यम् ।
अप्रस्तुतस्तुतिं यत्र वक्ति तद्वाक्यमुत्तमैः । अप्रस्तुतार्थमित्युक्तं तस्य लक्ष्यं प्रदर्श्यते ॥८३।। दीर्घदेहो रक्तवर्णो विशालाक्षो धनाधिपः ।
रम्भास्तम्भसमानोरुः कवीशो वर्तते भुवि ।।८।। अत्र दीर्घदेहादिविशेषणं कवीन्द्रस्य श्लाघनोपयोगि न स्यादित्यप्रस्तुतार्थ वाक्यम् ।
प्रस्तुतस्य विरुद्धार्थः कथ्यते यत्र तन्मतम् । असंमतपदार्थ तु वाक्यं तत्त्वविदां सताम् ।।८५।। रणादम्बरमालोक्य बहुभीतो भटाग्रणीः ।
जित्वा शत्रं समालिङ्ग्य वीरलक्ष्मी प्रमोदते ।।८६।। अत्र प्रस्तुतस्य भयानकरसस्य विरुद्धो वीररसः कथित इत्यमतपदार्थवाक्यम् ।
अपरार्धगतं यत्र वाचकं त्वेकमुच्यते । तद्वाक्यमुक्तमर्थान्तरैकवाचकमीदृशम् ॥८७।। स्मराग्निपीडिते' तन्वि स्मरः क्रूरोऽमरं श्रय । तस्मादिति प्रिया दूत्या वाणी प्रोक्ता हिता मिता ॥८॥ १. पीडिता । २. क्रूरोरमं ।
For Private and Personal Use Only