________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१००
शृङ्गारार्णवचन्द्रिका
पुरुषो राजते राजसभायां वरधीवरः । प्रकाशयत्यनुचितं कैवर्त धीवरः पदम् ||२७|| प्राधान्येन न वर्तेत स्त्रार्थे यत्पदमीरितम् । अविसृष्टविधेयांशं तत्पदं प्रणिगद्यते ||२८|| मार्गे याति नरः कश्चिन्महाशूरो धनाधिपः । धनाधिपमहाशूरपदे प्राधान्यतो न हि ॥ २९ ॥ सङ्ग्रामदानप्रस्तावे महाशूरधनाधिपपदद्वयेन प्राधान्येन संभवान्मार्गे तदसंभवात् अविमृष्टविधेयांशत्वम् । इष्टार्थादन्यदुष्टार्थप्रतीतिजनकक्षमम् । विरुद्धमतिकृच्चोक्तं तत्पदं विदुषां वरैः ||३०|| सुरतरवे लोकोऽयं गुरवे तुभ्यं सदा नमति । जननी या भवतः सा परोपकारे सदा क्रमते ||३१||
[ x. 27 -
सार्थपरामर्शस्य
'सुरतरवे' 'जननी या भवतः' इति पदद्वयं विरुद्धाऽर्थ प्रतीतिकरम् । सुरतरवे सुरत - रवे 'जननी या भवतः ' 'जननी याभवतः ।
स्वकीयशास्त्रसिद्धार्थं यत्पदं वक्ति तत्पदम् । अप्रतीतमिति प्रोक्तं कथ्यते तदुदाहृतिः ||३२|| त्रैलोक्यं वर्तते जीवसुखदुःखविधायकम् । सृष्टिसंहार करणे बहुधानकमुच्यते ||३३||
सांख्यागमे त्रैलोक्यमिति बहुधानकमिति पदद्वयं प्रधानतत्त्ववाचकं तद् आगमप्रसिद्धत्वाद् अप्रतीतम् ।
For Private and Personal Use Only
उक्त्वा पदगतदोषान् पदैकदेशेषु पूर्वकथितास्तान् । दोषान् वदामि शृणु भो राय नृपाधीश भो यथायोगम् ||३४|| सरसत्वान्मृदुत्वाच्च सुभगत्वाच्च सुन्दरी । जगन्मोहक चित्रं कामेनापि विलोक्यते || ३५ ॥