________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- X. 26 ]
१०. दोषगुणनिर्णयः
पदेन येनासभ्यार्थी ज्ञाप्यते तत्पदं मतम् । अश्लीलं त्रिविधं व्रीडामङ्गलार्थजुगुप्सकम् ||१७|| तरुण्या मदनावास राजते सुखदायकः । मदनावासशब्दोऽयं लज्जोत्पत्तिविधायकः ॥ १८ ॥ कामिनीवदनं पद्मं विनाशयति लीलया । विनाशयति नीरेजमेतत्पदममङ्गलम् ||१९|| रतौ तरुण्या नाथस्य क्षुते सति विशङ्कयते । क्षुते सति पदं चैतज्जुगुप्साजन्मकारणम् ||२०|| स्वसंकेतितमर्थं यत्पदं मूलार्थसूचने । सामर्थ्यरहितं वक्ति तन्नेयार्थं विदुर्बुधाः ||२१||
अनन्तरानुजो धर्मपुत्रस्य परिपातु वः । रुद्रकान्तेक्षुवाटेषु प्रभाते रोरवित्यलम् ||२२|| अत्र धर्मपुत्रस्य अनन्तरानुजः भीमः । भीमो नाम महेश्वरः इति स्वसंकेतः। रुद्रकान्ता शिवा । शिवा नाम जम्बुका इति स्वसंकेत: ।
अर्थ व्यवहितं वक्ति तत्पदं क्लिष्टमुच्यते । विनतानन्दनारोहकान्तापुत्रो जयत्यलम् ||२३||
९९
विनतानन्दनो गरुडः तदारोहको विष्णुः तत्कान्ता लक्ष्मीः तत्पुत्रो मन्मथः इति व्यवहितार्थं द्योतकम् ।
अर्थं विवक्षितं तस्मादन्यार्थमपि यत्पदम् । प्रकाशयति संदिग्धं तदुक्तं दोषवेदिभिः ||२४|| देवो नभसि यातीति संदिग्धं पदमुच्यते । निर्जरो वा घनो वेति संशयस्य समुद्भवात् ॥२५॥ पदस्य यस्यानुचितो गम्यतेऽर्थस्तदुच्यते । बुधैरनुचितार्थं हि तस्योदाहरणं यथा ||२६||
For Private and Personal Use Only