________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-X. 42 ] १०. दोषगुणनिर्णयः
१०१ अत्र पदैकदेशस्य त्वत्प्रत्ययस्य बाहुल्यात् सरसत्वादिपदत्रयं श्रुति-- कटूच्यते ।
आलिङ्ग्य कामुकः सौख्यं प्रमदायाः पयोधरान् । यात्योदनं सूपकारः पचतेऽलं 'धरेशिने ॥३६॥ अत्र पयोधरान् इति एककान्ताया बहुवचनं पदैकदेशरूपं निरर्थकम् । पचते इत्यात्मनेपदमपि पदैकदेशरूपं निरर्थकं फलेशत्वाभावात् ।
मां समानो न यातीतः साधरामृतसौष्ठवाम् ।
अत्र मांसमृतेत्येतत्पदांशोऽश्लीलमुच्यते ॥३७।। अत्र मांसेति जुगुप्साकरमश्लीलं मृतेत्यमङ्गलमश्लीलम् ।
देवतया पूज्योऽयं नरनाथो धर्मसाररसशाली।
देवेति तयेति तथा देवतया वेति भवति संदेहः ॥३८॥ अत्र पदैकदेशरूपं संदिग्धम् । त्यागवाः कुर्वते युद्धं गीर्वाणैस्सर्वदा समम् ।
लक्षको दानशब्दस्य त्यागशब्देन वाचकः ॥३९।। अत्र त्यागवा इति पदैकदेशस्त्यागशब्दः दानशब्दगमको भवति । न पुनरसुरार्थवाचकः । पददोषं निरूप्याहं वाक्यदोषं ब्रुवेऽधुना। शृणु राय महीनाथ काव्यगोष्ठिविशारद ।।४।। उपहतलुप्तविसर्ग हतवृत्तं गभितं तथाकीर्णम् । न्यूनपदं कथितपदं प्रसिद्धिहतमक्रम विसंधि तथा ॥४१॥ प्रतिकूलवर्णमपदस्थितपदमस्थानगतसमासं च । अधिकपदं रसरहितं समाप्तपुनरात्तमनभिहितवाच्यम् ।।४२।।
१. दरोशिने।
For Private and Personal Use Only