________________
Shri Mahavir Jain Aradhana Kendra
९४
शृङ्गारार्णवचन्द्रिका
खद्धस्तखङ्गमवलोक्य कवीश्वराणां बुद्धिः स्फुरत्यमलबोधपराक्रमेश ॥ २९२॥
अयमपि संशयः ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चिन्तामणिः किं न जडत्वमस्य किं वा सुरागो नहि पुष्पजालम् । विवेकवाक्प्रौढियुतेन तेन
एकावल्यलंकारः ।
त्यागेन कादम्बनृपः प्रबुद्धः ॥ २९३ ॥ निश्चयान्तसंशयालंकारः । संशयः संशयोपमा, निश्चयान्तो
निर्णयोपमेति केचित् ।
पूर्वपूर्वी विशिष्टोऽर्थो रच्यते तद्विशेषणम् । उत्तरोत्तरतन्निष्टं यत्र सेकावली मता ॥ २९४ ॥ श्रीराय क्षितिपालको वरमहालक्ष्मीपतिः सा रमा वीरश्रीसहचारिणीजयवधूः कीर्त्यङ्गना भूषिता । सा कीर्तिर्वरशारदासहचरी सा शारदामञ्जुल - श्रीतुण्डाब्जनिवासिनीनुतमुखं संपूर्ण सीमोपमम् ॥ २९५ ॥
अप्रयुज्यविशेष्यं तद्विशेषणपदानि वै ।
साकूतानि प्रयुज्यन्ते यस्मिन् परिकरः स हि ॥ २९६॥ कुवलयकरसारं श्रीचकोरीप्रमोदं
नववररसपीयूषाश्रयं सत्कलेशम् ।
[ IX. 292.
कविदिविजसहायं सर्वलोकप्रियं कं
परिकरालंकारः ।
वदति निजसमानं रायबङ्गप्रवीणः ॥ २९७ ॥
-p
वस्तुसाधारणं यत्र किंचिदेकत्र रूप्यते । निषिध्यते तदन्यत्र परिसंख्या हि सा मतां ॥२९८॥
For Private and Personal Use Only