________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- Ix. 291 ]
९. अलंकारनिर्णयः
कादम्बवंशे विस्तीर्णे स एको रायभूपतिः । raat सकल रत्नानि कौस्तुभाख्यां भजन्तु किम् ॥ २८५ ॥ प्रतिवस्तूपमा । अस्या उपमायामन्तर्भाव इति केचित् । यत्सारं निश्चितं यत्र तस्मात्सारं ततोऽपि तत् । सारं निश्चीयते व्याप्त्या सा सारालंकृतिर्मता ॥ २८६ ॥ कादम्बाब्धौ सुसारो वरगुणनिलयो रायबङ्गामृतांशु
स्तस्मिन् सारा विवेकामलतरविलसत्कौमुदी लोकपूज्या । तस्यां संतापहृत्त्वं सुकविजननुतं सारमस्मिन् सुसारं सत्सौख्यापादकत्वं वरविशदयशोदायकत्वं हि तस्मिन् ॥ २८७॥
सारालंकारः ।
अन्यस्य वस्तुनोऽन्यस्मिन् साम्याद्वस्तुविनिश्चयः । स्वकारणवशाज्जातो यत्र स भ्रान्तिमान् भवेत् ॥ २८८ ॥ संध्यारागं वनाग्नि गिरितटगतधातुव्रजं बालभानुं
कुपाराग्नि नभोऽन्तर्गत दिवि जनधीरक्तनीरेजषण्डम् । दृष्ट्वा च बेभीयतेऽसौ सकलरिपुगणैस्त्वत्प्रतापः सुतापो
मत्वेति श्रीविलासास्पदविजयरमानर्तकीनृत्यरङ्ग ॥२८९ ॥ भ्रान्तिमदलंकारः । मोहोपमेति केचित् ।
एतद्वेदमिदं वेति चलबुद्धिस्तु संशयः । हेतुना निश्चयो यत्र निश्चयान्तोऽपि सत्कृतः ॥ २९०॥ शत्रुक्षयज्ञापकधूमकेतुः किं वैरिचन्द्रस्य विधुंतुदः किम् । त्वद्धस्तखड्गं कवयो विलोक्य संशेरते वीर नृसिंहभूप ॥ २९९॥ संशयालंकारः ।
किं किं कराब्जनिपतन्मधुपावली भो वीरश्रियः कविनुतावर रोमराजिः ।
१. दृष्ट्वा भोयते २. स्वप्रताप सुतापो ।
९३
For Private and Personal Use Only