________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- 1X. 306 ] ९. अलंकारनिर्णयः
कादम्बनाथसाम्राज्ये काठिन्यं करपीडनम् ।
कान्तापयोधरद्वन्द्वे तत्केल्यामेव ताडनम् ॥२९९।। परिसंख्यालंकारः।
याचनं चुम्बनादाने बन्धनं दुष्टनायके।
वियोगः पञ्जरे भीतिः क्रुद्धकान्तावलोकनात् ॥३००॥ इयमपि परिसंख्या । सनियमश्लेष इति केचित् ।
प्रश्नोत्तरद्वयं यत्र व्यक्तं गूढं च वोभयम् । उच्येते तमलंकारमाहः प्रश्नोत्तराह्वयम् ॥३०१॥ प्रजानां पालनं कस्मानिवृत्तिः पीडनस्य च ।
रायबङ्गमहीपालायाम्भोनिधिचन्दिरात् ॥३०२॥ व्यक्तप्रश्नोत्तरालंकारः।
पयोनिधिसमानस्य रायबङ्गमहीपतेः ।
क्रमाब्जभासुरस्याप्यमेयस्य श्रीः क्व वर्तते ॥३०३॥ व्यक्तप्रश्नगूढोत्तरालंकारः । अस्मिन् श्लोके पादचतुष्टयस्य प्रथमाक्षरचतुष्टये गृहीते पराक्रमे इति भवति तदेव गूढोत्तरम् ।
तव संबन्धि निष्काम तव संबोधनं कथम् ।
कीदृशस्त्वं पुनः कीदृग्मानवेश प्रपूजित ॥३०४॥ व्यक्तगूढोत्तरप्रश्नोत्तरालंकारः ।
अलंकृतीनामुक्तानामुपमादिभिदात्मनाम् । मध्ये द्वयोस्त्रयाद्रीनां संगो यत्र स संकरः ॥३०५॥ श्रीवङ्गराज वदनं तव पूर्णचन्द्रः
पादद्वयं कमलयुग्ममिव प्रभाति । नायं भुजोऽरिनृपवृन्दसुधांशुराहुः
कीर्तिः करोति सकलाम्बुधिलङ्घनं च ॥ ३०६ ॥ संकरालंकारः।
For Private and Personal Use Only