________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
शृङ्गारार्णवचन्द्रिका
[ IX. 263 -
प्रशस्तनिदर्शनालंकारः।
अन्याय इति शब्दं च न वादयति बङ्गराट् ।
अपशब्दं स्वशिष्यौघं न वादयति शाब्दिकः ।।२६३।। अप्रशस्तनिदर्शनालंकारः।
निन्दाव्याजेन यत्रार्थं स्तौति कंचिच्च सा मता। व्याजस्तुतिगुणा एव दोषा इव चकासते ।।२६४।। वक्षोरङ्गे महाश्रीवरमुखकमले शारदा वीरलक्ष्मी
दोर्दण्डे रायबङ्गक्षितिप तव महाशासनाद्वर्ततेऽसौ । आज्ञामुल्लङ्घ्य लोके तव विशदयशस्कामिनी बम्भ्रमीति
राज्ये सेयं तवाज्ञा सुकविजननुतातत्कथं जाघटीति।।२६५॥ व्याजस्तुत्यलंकारः।
देवतांघ्रिपसंस्तुत्या कीर्तिः संशोभते कथम् ।
सागरान्ता धरा कान्ता कथं जीवति राय ते ॥२६६।। श्लिष्टव्याजस्तुतिः।
व्याजस्तुतिविशेषाणामपर्यन्तः प्रविस्तरः।। बुद्धिशालिभिरभ्युह्यस्तस्मान्नास्माभिरुच्यते ॥२६७।। 'इष्टानां यत्र वस्तूनामाशंसनमिदं मतम् ( ? मिदंच यत्) । तामाशिषमलंकारं वदन्ति कविकुञ्जराः ॥२६८।। सुरेन्द्रपूज्यः परिपूर्णसौख्यः
सुज्ञानसाम्राज्यमहापदस्थः । जिनेन्द्रचन्द्रो वरदानरुद्रः
श्रीबङ्गराजस्य मुदेऽस्तु देवः ।।२६९।। आशीरलंकारः।
१. अष्टानां
For Private and Personal Use Only