________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 275 ] ९. अलंकारनिर्णयः नरेन्द्रकन्या परिपूर्णरूपा
शृङ्गारदुग्धाम्बुधिकौमुदी सा । तुङ्गस्तनी मङ्गलहारभूषा
श्रीबङ्गराजस्य मुदेऽस्तु कान्ता ॥२७०।। इयमप्याशीः।
यत्रानेकपदार्थानामत्युत्कृष्टेतरात्मनाम् । एकत्र कथनं जातं स समुच्चय उच्यते ॥२७१।। 'श्रीशान्तिनाथदेवोऽयं स्याद्वादोऽमोघलाञ्छनो
धर्मश्रीरायबङ्गोऽत्र लोके रत्नानि त्रीणि वै । कादम्बवाधिचन्द्रो लक्ष्मीः कीर्त्यङ्गना गिरां देवी
जयकामिनी च पूज्या चत्वारि हि दिव्यवस्तूनि ॥२७२।। अत्युत्कृष्टसमुच्चयालंकारः।
रायबङ्गक्षितीशस्य सन्ति शत्रुपुरेष्वमी।
जम्बुका घूकभल्लूकाः तिन्दुका युगपत्रकाः॥२७३।। अत्यपकृष्टसमुच्चयः । यत्रकोऽपि जनो वक्ति प्रोतियुक्तमिवाप्रियम् ।
अलंकृति तां वक्रोक्तिं प्राहुः काव्यविशारदाः ॥२७४।। श्रीबगेश्वर साधु साधु भवतः शृङ्गारशोभा परा
मुक्ताजालमलंकृतं परिलसद्वजंच संभूषितम् । श्रीचन्द्राभरणं महोदयकरं सर्वं त्वया संवृतं ___ वस्त्रेणेति निजालयागतपतिं सा वक्ति कान्ता गिरा ॥२७५।। वक्रोक्त्यलंकारः ।
१. श्रीशान्तिनाथ देवः स्याद्वादामोघलाञ्छनो धर्मश्री रायवङ्गभूपो रत्नानि श्रेणि लोकेऽत्र (?) । २. कोपाध्वजो ३. वानक्ति।
For Private and Personal Use Only