________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 262 ] ९. अलंकारनिर्णयः प्रजाः जनाः प्रजाः पुत्राः आह्लादयन्तीति क्रियका अभिन्नश्लेषः ।
रायबङ्गे न दृश्यन्ते श्लिष्यन्ते च पयोधराः ।
उत्तुङ गा अम्बराधारा मुक्ताफलविभूषिताः ।।२५५॥ अविरुद्धक्रियाश्लेषः ।
वियोगं प्राप्य रायेन्द्रो मोदते हृदये परम् ।
नारीजनस्तु क्लिश्नाति पयोधरसहायकः ॥२५६।। बिरुद्धक्रियाश्लेषः।
श्रीरायराज्ये काठिन्यं तरुणीस्तनमण्डले ।
अपवादो निरोष्ठयेषु काव्येषु न परत्र च ॥२५७।। सनियमश्लेषः ।
मन्दानिला लुण्टयन्ति दिव्योद्यानेषु सौरभम् ।
अथवा चञ्चरीकाश्च चोरयन्ति हि लोलुपाः ॥२५॥ नियमनिषेधश्लेषः।
रायबङ गः समुद्रश्च भूभृदास्पदगौरवः ।
गम्भीरो भूरिरत्नाढयो लावण्याढयो विराजते ॥२५९॥ अविरुद्धश्लेषः।
पयोधरविलोलोऽयं नृसिंहश्चातकायते ।
सन्मानसगतो बङ गो राजहंसायते सदा ।।२६०॥ उपमाश्लेषः ।
अर्थयोर्यत्र समयोरन्वयः क्रिययाजनि । तन्निदर्शनमित्युक्तं सदसल्लक्ष्मगोचरम् ।।२६१।। सुजनसुरकुजोऽयं रायबङ्गक्षितीशो
वितरति फलमिष्टं सर्वलोकाय लोके । गगनतलनिवासी कौमुदीकामिनीशो विलसदमृतदीप्तिः किं न लोकाय धत्ते॥२६२।।
For Private and Personal Use Only