SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ शृङ्गारार्णवचन्द्रिका [ IX. 247 - ज्ञानं स्वीकुरु बङ्गराज विनयं दत्त्वा गुरुभ्यः सदा पुण्यं स्वीकुरु देयवस्तुनिकरं दत्त्वा गुरुभ्यः सदा। वैरिभ्यः सुरलोकसौख्यपदवीं दत्त्वा तदीयं महा देशं स्वीकुरु युद्धरङ्गरमणीप्राणेश भूमीश भोः ।।२४७॥ विसदृशार्थपरिवृत्तिः। कार्यमारभमाणेन दैवात्तत्साधनागमः । लभ्यते यत्र तत्प्राहुरलंकारं समाहितम् ।।२४८।। कोपं निवारयितुमिष्टनिजाङ गनायाः प्रारब्धवान् नृपतिकुञ्जरबङ्गनाथः । तावत् सुधांशुरुदयाद्रिमुपैति पूर्णो रोरौति कोकिलगणो भगणश्चकास्ति ॥२४९॥ एकवाक्यमनेकार्थं यत्र श्लिष्टं तदुच्यते । अभिन्नपदमुद्दिष्टं श्लिष्टं भिन्नपदं द्विधा ॥२५०॥ 'देवोऽयमम्बरोद्भासी लोकालादः कविस्तुतः । मरुत्सहायो राजाग्रे भासते भुवनोत्तमः ॥२५१।। अभिन्नपदश्लिष्टम् । सदैव बलसंपन्नो न दीनो जडसंग्रहः । कविरम्यो रायबङगो राजते मन्दरागतः ।।२५२।। भिन्नपदश्लिष्टम् । व्यतिरेकाद्यलंकारे श्लेषाः प्राग् दर्शिताः परे । अन्ये केचन दृश्यन्ते श्लेषास्तत्कथनं यथा ॥२५३॥ आह्लादयन्ति रायं च सानुरागाः प्रजाः प्रजाः। साकूतं रक्षिता वृद्धाः करमार्दवलालिताः ॥२५४।। १. देवोऽयमम्बरोद्भासि लोकाह्लादी कविस्तुतः २. रायस्य ३. आकृतं । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy