________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 246 ] ९. अलंकारनिर्णयः नानावज्रभुजङगकाञ्चनशिवामन्दारराजामरी
स्त्रीबिम्बार्कमयं ह्यदान्मदनकान्तावासमप्यद्भ तम् ॥२३९।। पर्यायोक्तालंकारः।
गुणानां कर्मणां यत्र सहभावः प्ररूप्यते । सहोक्तिनामकं प्राहुस्तमलंकारमुत्तमाः ॥२४०।। रायस्य कीर्त्या धवलः शत्रुकान्ताजनः सह ।
'विक्रमेणारुणं सार्धं तत्कान्ताजनलोचनम् ॥२४१।। गुणसहभावकथनसहोक्तिः ।
श्रीरायक्षितिनाथ विक्रमगुणे नामा सदा वर्धते __ वीरश्रीशरदभ्रकीर्तिवनिता त्यागेन साकं तव । लक्ष्मीः पुण्यपदेन साकममलज्ञानेन वाणी समं
कोशेनाहवदक्षदण्डनिकरः संग्रामरोद्धर ।।२४२।। क्रियासहभावकथनसहोक्तिः । अथवा
कार्यकारणयोर्यत्र वक्तुं युगपदुद्भवः । कार्योत्पादनसामर्थ्य तां सहोक्तिं प्रचक्षते ॥२४३।। पुण्येन सार्धमाधत्ते धर्म यानेन दिग्जयम् । त्यागेन कीर्ति शौर्येण वीरलक्ष्मी च रायराट् ।।२४४।। कार्यकारणसहजन्मकथनसहोक्तिः ।
यत्राधत्ते पुनर्दत्त्वा किंचित्किचित् समं न वा। तामाहुनिपुणा लोके परिवृत्तिमलंक्रियाम् ।।२४५॥ सुरलोके पुरी दत्त्वा रिपुभ्यः स्त्रीविराजिताम् ।
नरलोके पुरी हत्वा तादृशी भाति रायराट् ॥२४६। सदृशार्थपरिवृत्तिः।
१. विक्रमेणारुणं सार्द्ध......'जनलोचनम् २. रिहभ्यः ।
For Private and Personal Use Only