________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IX. 231 - न सन्मित्रं न सत्संगो न सम्यग्धर्मदेशना। __ तथापि पुण्यवान् रायो वसत्यानन्दसागरे ।।२३१।। सन्मित्रादिसुखकारणवैकल्येऽपि पुण्यवानिति हेतुभितविशेषणाद्धेतुविशेषोक्तिः ।
अन्येऽपि भेदाः सन्त्येव विशेषोक्तेविदांवरैः । अभ्यूह्याः शास्त्रमार्गेण विस्तरो न मयोच्यते ।।२३२।। यत्र किंचित्समीकर्तुं युज्यते केनचित् क्रिया। एककाला समासो हि तुल्ययोगाभिधो भवेत् ।।२३३।। स्तवनं निन्दनं चापि समाश्रित्य द्विभेदभाक् । अलंकारस्तुल्ययोगः कथ्यते विदुषां वरैः ॥२३४।। भरतस्सगरश्चक्री श्रेणिको बङ्गभूपतिः।
श्रोतृमुख्यपदं प्राप्ता भवन्ति भुवनत्रये ।।२३५॥ स्तुतिपरतुल्ययोगितालंकारः ।
चिन्तामणिः कामधेनू रायबङ्गः सुरद्रुमः ।
परोपकारे निरता इति रूढिर्जगत्त्रये ॥२३६॥ अयमपि पूर्व एव ।
रायबङ्गक्षितीशस्य शत्रुजातश्रियः क्षणम् ।
सुरचापश्रियो विद्युन्मालालक्षा न चासते ।।२३७।। निन्दापरतुल्ययोगितालंकारः।
यत्र प्ररूप्यमाणेन वस्तुना तत्परत्वतः । इष्टार्थो गम्यते तद्धिपर्यायोक्तं सतां मतम् ।।२३८॥ अस्मद्वैरिपुरं त्वया बलपते श्रीमद्विधेयं भृशं
'कादम्बाम्बुधिचन्दिरे निगदतीत्येवं बलाधीश्वरः। १. कादम्बाम्बुनि चन्दिरे
For Private and Personal Use Only