SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- IX. 230 ] ९. अलंकारनिर्णयः देशोऽयं स्वर्गभूमिर्नृपसदनमिदं देवराजस्य गेहं कान्तेयं कामभार्या मदभरितगजो दिग्गजः सार्वभौमः । अश्वोऽयं शक्रसप्तिः सुरतरुरमलो जैनधर्मो जिनेन्द्रो देवोऽयं रोयबङ्गक्षितिपतिरधुना दिव्यपुण्यो विभाति ।।२२५॥ येन केनचित् कारणेन निविण्णचित्तः कश्चित् पुमानस्य नृपस्य विभूतिं धृत्वा वर्णयति तस्मादियमपि अप्रस्तुतप्रशंसा । यत्र वैकल्यकथनं गुणादीनां विधीयते । विशेषदर्शनार्थं सा विशेषोक्तिनिरूप्यते ॥२२६।। न शीतोऽपि यशोराशिर्जगत्तापं हरत्यसौ । नोष्णोऽपि विक्रमः शत्रून् रायस्य दहति ध्रुवम् ॥२२७।। शैत्यगुणवैकल्येऽपि जगत्तापहरणविशेषः । उष्णतागुणविकलत्वेऽपि वैरिदहनविशेषो यतस्ततो गुणवैकल्यविशेषोक्तिः । न कोकिला न वीणा वा न कीरा न च किन्नरी। __ कान्ता तथापि रायस्य चेतो हरति गानतः ॥२२८।। कोकिलादिजातिवैकल्येऽपि कान्ता स्वरेण रायचेतोहारिणी यतस्ततो जातिवैकल्यविशेषोक्तिः। न कुप्यति न बध्नाति काञ्च्या कर्णोत्पलेन सा। न ताडयति रायेन्द्रं भयं नयति कामिनी ॥२२९।। कोपनादिक्रियावैकल्येऽपि भयप्रापणमिति क्रियाकल्यविशेषकथनम्। सरससुरतयुद्धे विक्रमो नास्ति यस्याः परमनिशितशस्त्रं नास्ति खेटादिकं च । मदनतुमुलयुद्धाधीशकादम्बनाथं जयति सरसविद्या सा सती चित्रमेतत् ।।२३०।। शस्त्रखेटादिद्रव्यवैकल्येऽपि जयति विशेषकथनमिति द्रव्यवैकल्यविशेषोक्तिः। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy