________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णव चन्द्रिका
[ IX 218 -
भयानकाव्यरसवदलं कारः ।
कादम्बरायभूपस्य क्रोधाग्नौ विक्रमार्चिषि । दग्धवैरीन्धने लोकं व्याप्ते शुष्यन्ति वार्धयः ॥२१८॥
रौद्राख्यरसवदलंकारः ।
देवसेवनकालेऽस्य रायबङ्गस्य चेतसि ।
शीते शान्तरसे व्याप्ते शीतिभूतं जगत्त्रयम् ॥ २१९ ॥ शान्तरसाख्यरसवदलंकारः ।
रसवत्त्वं गिरां लोके रसैर्नवभिरुच्यते । रसैरष्टभिरित्येके शान्तवयैवंदन्त्यलम् ॥ २२०॥ उत्कर्षो यत्र गर्वस्य कथ्यते मानशालिनाम् । तमलंकारमूर्जस्विनामानं मन्यते बुधः || २२१|| पीतं वारिधिसप्तकं जगदिदं हस्तेन संचारितं
भोगीन्द्रस्य किरीटवर्तिमणयः शीर्णीकृताः पर्वताः । संचूर्णा विहिता मयेति कदने यो वक्ति गर्वं निजं
तं जित्वा नृपकुञ्जरो विजयते कादम्बवंशोत्तमः ॥२२२॥ ऊर्जस्व्यलंकारः ।
यत्राप्रस्तुत वस्तूनां वर्णना क्रियते जनैः । निर्विण्णमानसंस्तच्चाप्रस्तुताशंसनं विदुः ॥ २२३॥ हरित तृण भक्षिणोऽमी हरिणा हर्षेर्वसन्ति पीतजलाः । इति वक्ति रायवङ्गक्षितिपतिशत्रुव्रजो वने सोऽयम् ||२२४|| रायनृपतिना तिरस्कृतत्वान्निर्विण्णमानसेन शत्रुवर्गेण हरिणानामप्रस्तुतानां प्रशंसा कृता यस्मात्तस्मादप्रस्तुतप्रशंसालंकारः ।
१. रित्येते । २. भक्षिणोमि हरिणा हर्षेर्वसन्ति सीतजलाः । ३. वनसोयम् ।
For Private and Personal Use Only