SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 200] ९. अलंकारनिर्णयः बुद्धिमहत्त्वोदात्तालंकारः। आस्थानमण्डपगते सुरशैलतुङ्गे सिंहासने मदनरूपनृसिंहबङ्गः । आस्ते सतां फणिपतिर्वरसार्वभौमो गीर्वाणराज इति वाखिलमन्यमानः ॥१९४॥ ऐश्वर्यमहत्त्वोदात्तालंकारः । सत्यरूपमपह नुत्य यत्रान्यार्थो निरूप्यते । अपह नवमलंकारं तमाहुः काव्यकोविदाः ॥१९५॥ अयं श्रीरायबङ्गो न क्षीरवाराशिरेव वै। अन्यथा वरगाम्भीर्यगुणशाली कथं भवेत् ॥१९६॥ रायबङ्गत्वलक्षणं स्वरूपमपह नुत्य क्षीराम्बुधित्वस्य पररूपस्य निरूपणात् स्वरूपापह नवालंकारः। अयं श्रीरायबङ्गो न समुद्रनवनीतकः । कादम्बक्षीरवाशेिरुत्पत्तिर्घटते कथम् ॥१९७॥ अयमपि पूर्व एव । अयं श्रीरायबङ्गो न सुरभूजोऽन्यथा कथम् । समस्तजनसंकल्पदायको जाघटीत्ययम् ॥१९८॥ अयमपि तथैव। युद्धरङ्गत्रिनेत्रोऽयं रायबङ्गमहीपतिः । कल्पान्तसमवयैव किलान्यत्र दयानिधिः ॥१९९॥ दयानिधित्वं परेष्वभ्युपगम्य स्वेषु रिपुवर्गेण तस्य प्रलयान्तकत्वदर्शनाद्विषयापह नवालंकारः । उपमालंकृतौ पूर्वमुपमापह नवः स्मृतः । अन्यापह नुतिभेदानां विस्तरो लक्ष्यतां बुधैः ॥२००॥ १. कादम्बक्षीरवाराशो उत्पत्ति । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy