________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
शृङ्गारार्णवचन्द्रिका [ IX, 187 - शैलाग्रे स्थितवानहं तव गुणं तेजोऽभिधानं तपो
लब्धं वै विदधामि चारुवचसा'प्रासादयत्तं नृपम् ॥१८॥ वचोगोपनलेशालंकारः । निन्दास्तुतिर्वा । सेवार्थमागतमहाधरणीश्वराणा
मालोकनेन करुणास्मितभाजनेन । सिंहासने स्थितवता नृपकुञ्जरेण
चेतःप्रसत्तिरमला प्रकटोकृताभूत् ॥१८८॥ चेष्टाप्रकाशनलेशालंकारः।
उक्तानां यत्र वाच्यानां योगो वाच्यान्तरैः सह। क्रमेण कथितः सोऽत्र क्रमालंकार उच्यते ॥१८९॥ रूपं वचोऽधररसं स्तनकुम्भयुग्मं
निःश्वासगन्धविषयं तरुणीतनुस्थम् । आलोकनश्रवणपानसमागमोरु
घ्राणक्रियाभिरनुभूय सुखी नृपोऽभूत् ॥१९०॥ क्रमालंकारः।
भ्रलोचनकटाक्षान् वै रायस्यालोक्य कामिनी।
चापभृङ्गशरान्मत्वा जायते भयविह्वला ॥१९१॥ अयमपि क्रमः । बुद्धमहत्त्वं भूतेर्वा तन्यते यत्र कोविदः । उदात्तं तमलंकारं वदन्ति कविपुङ्गवाः ॥१९२॥ काले कलौ स्वहितमङ्गलचारुबुद्धया
पाति प्रजाः करुणया न बिभेति शत्रोः । शीतांशुभानुसमनीतिपराक्रमाभ्यां
जेजीयतेऽरिनृपतीभघटामृगेशः ॥१९३॥ १. प्रच्छन्नवांस्तां कृदं।
For Private and Personal Use Only