________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- 1X. 186 ] ९. अलंकारनिर्णयः यत्र प्ररूपितं वस्तु स्वसमानस्य वस्तुनः । विदधाति प्रतीति सा समासोक्तिः सतां मता ॥१८२॥ भो भो कल्पतरो त्वमत्र भवने पुष्णासि सर्वान् जना
नाकल्पं तव कीर्तिवस्तु विदुषां स्तुत्यं परं तिष्ठतु । काकोलूकपरेण निम्बतरुणानेनालमन्ये च ये।
वृक्षाः सन्ति बहुत्वधर्मसहितास्ते सन्तु मा सन्तु वा ॥१८३॥ अत्र कथितः कल्पतरुः स्वसदृशं रायबङ्ग ज्ञापयति, निम्बतरुः स्वसमानं नीतिशून्यनृपं, परे च तरवः स्वसदृशभूपबाहुल्यं सूचयन्ति तत्तद्विशेषणमुक्तानुक्तयोः सममिति समानविशेषणभिन्नविशेष्यसमासोक्तिः ।
संतापहारी चन्द्रोऽयं कलामृतविराजितः।
अकलङ्कः सदोद्भासी मया पुण्येन लभ्यते ॥१८४॥ अत्र कथितश्चन्द्रः स्वसमं रायबङ्गं गमयति, संतापहरणं कलामृतविराजनं चन्द्र राये च समम्, अकलकत्वं सदाभासनं रायनृपे न चन्द्र इति भिन्नाभिन्नविशेषणसमासोक्तिः ।
सनिमेषः सुराधीशो निष्कलङ्कः सुधाकरः ।
वदन्कल्पतरुलब्धः केनचिबहुपुण्यतः ॥१८५॥ अत्र रायनृपसमानानामिन्द्रादीनां निर्निमेषत्वादिधर्म निराकृत्य सनिमेषत्वाद्यपूर्वधर्मं निरूप्य रायबङ्गप्रतीतिसमर्थनादपूर्वसमासोक्तिः । अस्यालंकारस्य अन्यापदेश इति नामान्तरं वक्तव्यम् ।
अर्थस्य गोपनं वाचा चेष्टया वा प्रकाशनम् । लेशतो लव इत्युक्तः सद्भिनिन्दास्तुतिः परैः ॥१८६॥ पूर्वादि गतबालभानुमधुना तेजस्विनं वीक्ष्य तं .
पञ्चास्यासनयातबङ्गनृपतौ कोपं प्रयाते सति ।
For Private and Personal Use Only