________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 150 ] ९. अलंकारनिर्णयः शब्दोपात्तसादृश्ययोः श्रीरायमारयोः सदशध्वजद्वयस्य भेदगमकत्वात्सदृशव्यतिरेकालंकारः।
रायः कादम्बनाथोऽयं नारीलोलद्गीक्षितः । कुसुमास्त्रधरो भाति रतिदेवीदृगंकितः ॥१४५।। प्रतीयमानसादृश्ययोर्मारराययोः सदशरतिलोचननारीलोचनानां भेदगमकत्वादपरः सदृशव्यतिरेकालंकारः ।
सुरराजश्रियो रम्यं भोगीन्द्रसुखलालितम् ।
रायस्य राज्यं क्रमते प्रजापालनंभासुरम् ॥१४६।। रायराज्यं प्रजापालनभासुरत्वेन राज्यजातेस्तुल्यं सुरेन्द्रविभूतिभोगीन्द्रसुखलालितत्वेन भिन्नमिति सजातिव्यतिरेकालंकारः ।
प्रकृतं कारणं त्यक्त्वा यत्र हेत्वन्तरं मतम् । विभाव्यते स्वभावो वा यत्र सा हि विभावना ।।१४७।। 'अचन्द्रा चन्द्रिका कीर्तिः प्रतापो भानुना विना।
बालातपो मुखं चन्द्रो क्षीराब्धेस्ते नृसिंह भो ॥१४८।। चन्द्रादिकारणं परित्यज्य कीर्तिचन्द्रिकादेः श्रीरायनामकारणान्तरकल्पनात्कारणान्तरकल्पनाविभावना।
अकारणमहाबन्धुरकारणसहृद्भवान् ।
अकारणदयालुश्च जनानां रायभूपते ।।१४९॥ अकारणपदेन हेतुं निराकृत्य स्वभावेन बन्धुत्वादिकथनात्स्वभावविभावना।
प्रतिषेधस्य कथनं प्रतीतिर्वा प्रजायते । स यत्राक्षेप इत्युक्तस्त्रिधा कालत्रयाश्रयात् ॥१५०॥ १. भास्करम् २. आचन्द्रा।
For Private and Personal Use Only