________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
शृङ्गारार्णवचन्द्रिका [ IX. 151 - रायो रणाङ्गणेऽरीणां जलं प्रविशतां तृणम् । दशतां कृतवल्मीकारोहणान्न व्यधाद्वधम् ॥१५१॥ अतीताक्षेपालंकारः ।
कुतो ललाटे तिलकं करोति नृपरायराट् ।
साङ्कमिन्दं स्वकीयस्य सममिच्छति किं कृती ॥१५२।। वर्तमानाक्षेपालंकारः।
सापराधो नृपो रायः कान्ताडम्बरकोपतः ।
भीत्वा रतिगृहं रम्यं सोत्कण्ठोऽपि न यास्यति ।।१५३।। अनागताक्षेपालंकारः।
कीर्तिचन्द्रातपे शैत्यं न सत्यं तव रायराट् ।
यदि सत्यं विपक्षाणां संतापयति किं पुनः ॥१५४।। शैत्यविरोधिना संतापकर्मणा केनचित्पुंसा शैत्यधर्मस्य आक्षिप्तत्वाद्धमाक्षेपालंकारः।
रायबङ्गस्य कीर्तिर्वा नेति को बुध्यते भिदाम् ।
दृश्यते शुद्धधावल्यप्रभा जगति नाश्रयः ॥१५५।। धावल्यप्रभालक्षणं धर्ममाश्रित्य कीर्तिरूपो धाक्षिप्त इति धाक्षेपालंकारः।
रायं कल्पान्तकं युद्धे दृष्ट्वापि 'रिपवोऽवशाः । . भयं न यान्ति वल्मीकतृणपानीयसंश्रिताः ॥१५६।। भीतेः कारणं वधो वल्मीकाद्याश्रितैर्वैरिभिनिषिद्ध इति कारणाक्षेपालंकारः।
रायस्यायल्लके ज्योत्स्नाहिमाम्बुमलयानिल-। कर्पूरसंगमेऽप्यस्याः शीतभावो न जायते ॥१५७।। १. रिपदोवदाः।
For Private and Personal Use Only