________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
शृङ्गारार्णवचन्द्रिका [ IX. 140 - रायबङ्गवर्तिना दृश्यत्वधर्मण भेदकथनादुभयगतभेदस्य प्रतीतिसिद्धत्वादेकव्यतिरेकालंकारः ।
यशःप्रतापौ भवतो जगद्व्याप्तौ कविस्तुतौ ।
यशःशारदचन्द्राभं बालभानुसमः परः ।।१४०।। यशःप्रतापोभयभेदसाधकधावल्यरक्तत्वधर्मद्वयस्य पृथक्कथनादुभयव्यतिरेकालंकारः ।
उन्नतस्थानवृत्तोऽपि तेजस्व्यपि महानपि ।
राय त्वत्समतां याति न भानू राहुपीडितः ।।१४१।। साक्षेपव्यतिरेकालंकारः।
धरन्नपि महाभाग्यजनितां पूर्णसंपदम् ।
एकदिक्पालनादिन्द्रस्त्वत्तो राय निकृष्यते ॥१४२।। सहेतुव्यतिरेकालंकारः। उक्तव्यतिरेकालंकारपञ्चकं शब्दोपात्तसादृश्यम्।बालातपः प्रतापश्च धरतो भेदमीदृशम् । बालातपो भानुवर्ती प्रतापस्त्वयि वर्तते। रक्तत्वधर्मेण प्रतीयमानसादृश्ययोर्बालातपप्रतापयोर्भेदकथनात्प्रतीयमानसादृश्यभेदमात्रव्यतिरेकालंकारः।।
सकलङ्को निराधारः कलाहीनश्च चन्द्रमाः ।
श्रीरायबङ्गभूमीश त्वत्समः कथमुच्यते ।।१४३॥ जगदानन्दजनकत्वजगत्संतापहारित्वादिवर्मेण प्रतीयमानसादृश्ययोश्चन्द्ररायबङ्गयोर्मध्ये रायबङ्गस्याधिक्योपेतभेदकथनादाधिक्योपेतभेदलक्षणव्यतिरेकालंकारः ।।
कादम्बरायो मारश्च रूपवन्तौ मनोहरौ । रायः सिंहध्वजो मारो मीनकेतुर्विराजते ॥१४४।। २. आक्षेपालङ्कारः।
For Private and Personal Use Only