________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६९
- 1X. 125 ] ९. अलंकारनिर्णयः नानाक्रियाणामेककर्तृकारकेण संबन्धादेकार्थदीपकम् । अब्ज कूर्ममनङ्गराजशरधि कामेभसद्बन्धना
लानं सिंहमपूर्वसारसरसी नागं गिरि वल्लरिम् । शङ्ख शीतकरं तिलस्य कुसुमं वज्रं प्रवालं झषं ___ चापं भृङ्गति मयूरमसमं दृष्ट्वा सदा मोदते ॥ ११८ ॥ श्रीरायबङ्ग इति अध्याहारः कर्ता । एतदन्त्यक्रियादीपकं प्राक प्रदर्शितमपि भावचमत्कारसंभवात्पुनः प्रदर्शितम् । अनया दिशा विचक्षणैर्दीपकान्तराण्यभ्यूह्यानि ।
यत्रार्थस्य स्वरूपेण विद्यमानस्य कल्पना। अन्यथा तमलंकारमुत्प्रेक्षाख्यं प्रचक्षते ॥ ११९ ।। नूनं प्रायो ध्रुवं शङ्क मन्ये सत्यमिवादिभिः । शब्दैः प्रकाश्यते सेयमुत्प्रेक्षा कविपुङ्गवैः ।। १२० ।। वाच्या प्रतीयमानेति सा चोत्प्रेक्षा द्विधा मता। मन्ये शङ्के ध्रुवादीनां प्रयोगे प्रथमा मता ॥ १२१ ।। मन्ये शङ्के ध्रुवादीनां शब्दानामप्रयोगतः । प्रतीयमानोत्प्रेक्षा तु द्वितीया विबुधैर्मता ॥ १२२ ।। वाच्योत्प्रेक्षा पुनः प्रोक्ता षट्पञ्चाशद्विधा बुधैः । प्रतीयमानोत्प्रेक्षाष्टचत्वारिंशद्विधा मता ॥ १२३ ।। तदुदाहृतिरन्यत्र बोद्धव्या बुद्धिशालिभिः । मूलभेदौ निरूप्येते द्वाविमौ संग्रहत्वतः ॥ १२४ ।। शशधरसुरगङ्गा क्षीरवाराशिमुख्यान्
धवलगुणविशिष्टान् केचिदाहुः स्वतोऽमून् । तव विशदयशोंऽशस्पर्शनादर्जुनास्ते
सुकविविनुतवङ्गक्ष्माप मन्ये सदाहम् ।। १२५ ॥
१. रूपकम्
For Private and Personal Use Only