SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ शृङ्गारार्णवचन्द्रिका अन्त्यवर्तिगुणपददीपकालंकारः । सिंहासने महारत्नकीलिते प्रतिभासते । क्रीडत्यारामसंदोहे हारालंकृतरायराट् ॥ ११२ ॥ अन्त्यवर्तिद्रव्यपददीपकालंकारः । [ Ix. 112. कादम्बनाथं रायेन्द्रं लोकते प्रणमत्यपि । नानादेशगतां वार्ता' ब्रूते रम्यां कपिध्वजः ।। ११३ ।। अन्त्यवर्तिसंज्ञापददीपकालंकारः । शास्त्रं धर्मस्य संवृद्धयं स च पुण्यस्य तच्छ्रियः । सा श्री रायमहीनाथे सुखस्य खलु जायते ।। ११४ ।। इति दीपकत्वेऽपि पूर्वपूर्वापेक्षया वाक्यमाला प्रयुक्तेति मालादीपकम् । श्रियं विपक्षवर्गस्य वर्धयन्ति चलानि वै । ह्रासयन्ति नृसिंहस्य मन्त्राः पञ्च सुनिश्चिताः ।। ११५ ।। क्रियायाः परस्परविरोधाद् विरुद्धार्थदीपकम् । मनोवेगयुताः सत्त्वा दिव्यलक्षणभूषिताः । दिवि भान्ति पतङ्गाश्वा भुवि रायतुरंगमाः ।। ११६ ॥ मनोवेगादिधर्मेण' उभयेषां समानानां भानुक्रियासंबन्धात् श्लिष्टार्थदीपकम् । कान्तास्यं वरमीक्षते घनकुचद्वन्द्वं स्पृशत्युन्नतं श्लिष्यत्यङ्ग मनङ्गतन्त्रविदियं श्रीरायबङ्गी दरम् । चुम्बत्यङ्गति भावयत्यमति संस्त्रीणाति संमोदते जानीते विनयत्युदेति कुरुते संभाषते भासते ।। ११७ ॥ १. उभस्वानां २. गमनं । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy