SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [IX. 97 - प्राप्यविषयकारकहेत्वलंकारः । तव पल्लववज्रेण 'मुक्तेनार्धसुधांशुना । मनः सुबोधमित्येवं नायिका वक्ति नायकम् ।।९७।। ज्ञापकहेत्वलंकारः । जातिक्रियागुणद्रव्यसंज्ञाभेदाभिधायिना आदिमध्यान्तवृत्तेन पदेवैकत्रवर्तिना। वाक्यार्थनिर्णयो यत्र भवेत्तद्दीपकं मतं बहुधा वर्तमानस्य तस्य लक्ष्यं प्रतन्यते ।।९८।। कोकिला रणनं कृत्वा नृसिंहं मोदयन्त्यलम् । खेदयन्ति च कान्तायाः खण्डिताया मनः परम् ॥९९|| आदिवर्तिजातिपददीपकालंकारः। चरन्ति मदनोद्याने नृसिंहरमणीजनाः । त्वद्वैरिवनितालोका विपिनेषु गुहासु च ॥१००। आदिवतिक्रियापददीपकालंकारः । रक्तं कादम्बनाथेऽस्मिन् कामिनीनां मनो भृशम् । प्रजानां मित्रलोकानां चित्तं च विदुषामपि ॥१०१॥ आदिवर्तिगुणपददीपकालंकारः । हारेण रायबङ्गस्य कण्ठस्थेन मनो हृतम् । नारीजनस्य शीतांशोमयूखोऽपि तिरस्कृतः ।।१०२॥ आदिवर्तिद्रव्यपददीपकालंकारः । चैत्रेण सेवकेनासौ रायबङ्गो विनम्यते । पश्चाद्राजाधिलोकस्य वार्ता सम्यग्निरूप्यते ॥१०३।। १. मुक्त For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy