________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 96 ]
९. अलंकारनिर्णयः
पदावृत्तिर्यथा -
श्रीरायक्षितिनाथकीर्तिवनिता भाति त्वदीया भृशं __ सप्ताम्बोधिषु भाति सर्वगगने सर्वत्र दिग्मण्डले । भाति क्षमासु च भाति भाति सकले स्वर्गेऽप्यधोविष्टपे
भातीयं कविराजचारुवचने भातीयमत्यद्भता ॥८॥ उभयावृत्तिर्यथा -
क्रीडयत्यङ्गनालोको भवान् नृपगृहे सदा।
गुहासु क्रीडयत्यद्य नारीवर्ग रिपुव्रजः ।।२०।। एतदावृत्त्यलंकारत्रयं दीपकालंकारस्थान एव संमतम् ।
हिनोति कार्य व्याप्नोति ज्ञाप्यं वा हेतुरुच्यते। उत्पत्तिसाधनत्वेन ज्ञप्तिसाधनतोऽपि वा ।।९१॥ कारकज्ञापकौ हेतू उत्पत्तिज्ञप्तियोग्यको । यत्रोच्यते स हेत्वाख्योऽलंकारोऽनेकधा मतः ।।९२।। हरिचन्दनहारेण मल्लिकामालया युतः ।
प्रीति करोति नारीणां शृङ्गारार्णवचन्द्रमाः ।।९३॥ निवर्त्यकारकविषयहेत्वलंकारः।
आरक्तमालतीमालातिलकाभरणोज्ज्वलः ।
आलिङ्ग्य नायिकां नाथश्चिन्ताभावाय कल्पते ॥९॥ अभावरूपनिर्वयंविषयहेत्वलंकारः । पूर्वो भावविषयः ।
रूपातिशयसंपन्नो नुतदक्षिणनायकः ।
रायबङ्गो व्यवात् स्त्रीणां मनःकौतूहलान्वितम् ॥९५॥ विकार्यविषयकारकहेत्वलंकारः।
इक्षुचापसमाकारः कामसिद्धान्तवेद्यसौ । रायबङ्गोऽवनीनाथो नारीरूपं प्रपश्यति ॥९॥
For Private and Personal Use Only