________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
समस्तरूपकम् ।
श्रीरायो जलधिः सुधांशुरमृतं मेरुः सुरानोकहो भानुः सिद्धरसो मनोजनृपतिश्चिन्तामणिर्देवराट् । भोगीन्द्रः सुरधेनुरम्बरमिदं काले कलौ सर्वदा
भूत्वा तीर्थंकरोऽपि सर्वजनतानन्दाय संवर्तताम् ॥ ६७॥
[ JX. 67 -
व्यस्तरूपकम् ।
कामिन्याः पदपङ्कजेद्धमधुपो वक्त्राब्जसंवर्धिताम्बोधिस्त्वं वरनाभिचारुसरसि श्रीराजहंसः सदा । अङ्कालाननिबद्धभावजगजस्तुङ्गस्तनाद्रिस्थित
'व्याधोऽपाङ्गनिरीक्षणेषुविलसल्लक्ष्योऽसि बङ्गप्रभो ।। ६८ ।।
समस्तव्यस्तरूपकम् ।
श्री रायस्य मुखेन्दुस्ते (? श्च) स्मितज्योत्स्नाविराजितः । कस्तूरीतिलकाद्धो भाति सूक्तिसुधारसः ॥ ६९ ॥
स्मितादिषु ज्योत्स्नादित्वं मुखे च चन्द्रत्वमारोप्य तद्योग्यस्थानविन्यासादेतत् सकलरूपकम् ।
स्मितज्योत्स्नां मुखं धत्ते कस्तूरीतिलकाङ्कनम् ।
सूक्तिपीयूषसारं ते कादम्बेश्वर रायराट् ॥ ७० ॥
मुखस्यावयवानां स्मितादीनां ज्योत्स्नादिष्वारोपाद अवयविनो मुखस्यानारोपाद् अवयवरूपकम् ।
मुखेन्दुस्ते जनानन्दं करोति भ्रूविराजितः ।
विशालनेत्रो निटिलं धरन श्रीरायभूपते ।। ७१ ।।
अत्र भूनेत्रनिटिलानामवयवानामनारोपः अवयविनो मुखस्य चन्द्रत्वारोपाद् अवयविरूपकम् ।
१. व्यादोपांग, २. मुखदत्ते ।
For Private and Personal Use Only