________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- - IX. 66 ] ९. अलंकारनिर्णयः हेतूपमा।
उद्वेगो विदुषां यत्र नास्ति तत्रोपमा मता। लिङ्गस्य वचनस्यापि भेदे हीनेऽधिकेऽपि च ॥५७।। शारदाभ्रमिवापूर्वा कीर्तिस्ते चन्द्रिका इव ।
भवानिव महामेरुस्त्वं सुरेन्द्र इवासि भो ।।५८।। चतुर्णामेकः श्लोकः ।
उद्वेगो.यदि वर्तेत भिन्नलिङ्गादिके सति । तत्रोपमा न वक्तव्या कलागमविशारदैः ।।५९।। बलाकेव शरच्चन्द्रो वेशन्त इव वारिधिः । ग्रामस्वामीव देवेन्द्रः प्रदीपो भानुबिम्बवत् ॥६०।। एतादृशी सभासद्भिर्न वक्तव्या कदाचन । धर्ममात्रविवक्षायामुपमा कीर्त्यते बुधैः ॥६१॥ शृगालवत्पुरालोको मुनिराजो विराजते । अकृतावासको लोके फणीव मुनिसत्तमः ।।६२।। यथेववाद्यव्ययानि कल्पादिप्रत्ययास्तथा। अब्जास्यादिसमासश्च निभादिसमवाचकाः ॥६३।। उपमालंकृतावेते शब्दा वाच्याः कवीश्वरैः । स्पर्धते हसतीत्यादि शब्दा वाच्याश्च कोविदैः ॥६४॥ यत्रोपचर्यतेऽभेद उपमानोपमेययोः । तद्रूपकमलंकारस्तस्य भेदः प्रतन्यते ॥६५।। कान्ता ताटङ्कचक्रं विरचितकबरीबन्धकान्तारदुर्गं ..
लावण्याम्भस्सुदुर्ग धनकुचगिरिदुर्ग नखोदारखङ्गः । चक्षुर्लीलावलोकामितनुतशरजालं लसदृष्टिकेतुः कन्दर्पालापमन्त्रो विलसति चतुरो रायकन्दर्पराज्ये ॥६६॥
For Private and Personal Use Only