________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-IX. 49 ]
९. अलंकार निर्णयः
क्षीरवाराशिना तुल्या त्वत्कीर्तिरिति मे मनः । आचिख्यासति दोषो वा गुणो वा भवतु प्रभो ॥४१॥
आचिख्यासोपमा ।
पुण्डरीकं चन्द्रबिम्बं त्वद्यशस्त्रितयं प्रभो । परस्परविरुद्धं भो भाति कादम्बरायराट् ||४२|| विरोधोपमा ।
भुवनव्यापिनीं कीर्तिं भवदीयां सदातनीम् । पुण्डरीकं न शक्नोति जेतुं तादृक् क्रमोज्झितम् ||४३|| प्रतिषेधोपमा ।
त्वत्कीर्तिः स्वाङ्गसंजाता क्षीराब्धिजनितो विधु: । तथापि सम एवेन्दुर्नाधिको रायभूपते ॥ ४४ ॥ चटूपमा ।
कौमुदी कीर्तिस्तेन भानुस्तेज एव हि । न राहुः खड्ग एवायं प्रचण्डतरविक्रम ||४५ ।। सुव्यक्तसादृश्यसंभवात्तत्त्वाख्यानोपमा । क्षीराब्धिशारदाभ्रादिवस्तूनामुपमां सदा । विलङ्घ्य भूरिकीर्तिस्ते धत्ते स्वेनैव तुल्यताम् ||४६ || असाधारणोपमा ।
क्षीराब्धिशरदिन्द्वादिश्वेतवस्तुप्रभावति । एकत्रमिलितेवेयं कीर्तिस्ते राय राजते ||४७|| वृत्तिरियं कदापि नाभूदिति अभूतोपमा ।
अमावास्यातिथौ रात्रौ शारदी चन्द्रिका यथा । hot काले तथा भाति कीर्तिस्ते रायमन्मथ ॥४८ || असंभावितोपमा ।
शरच्चन्द्रनभोगङ्गाशारदाभ्रपयोर्णवान् । अन्वेति हारनीहारौ कीर्तिस्ते रायकायज ||४९||
For Private and Personal Use Only
५९