________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
शृङ्गारार्णवचन्द्रिका [IX. 34 - सप्तवाधिलङ्घननित्यवर्तनस्य असंभविनः कथनादद्भतोपमा।
चकोरनिकरो दृष्ट्वा त्वत्कीतिरिति कौमुदीम् ।
उपेक्ष्य भवतः कीर्ति याति ज्योत्स्नेति विभ्रमात् ॥ ३४॥ मोहोपमा।
सकलङ्कः सुधांशुः किं किं साकाशं यशस्तव ।
कम्पते जनताचित्तमिति श्रीरायभूपते ॥ ३५ ॥ संशयोपमा।
इन्दुना जीयते पुण्डरीकं त्वत्कीतिरेव तत् । ___ सकलङ्कन्दुजयिनी पुण्डरीकं यतस्ततः॥ ३६ ॥ निर्णयोपमा।
धवला श्रीमती सर्वजनसंतापहारिणी।
कादम्बराय कीर्तिस्ते राजते कौमुदी यथा ॥ ३७ ।। श्लेषोपमा।
साम्बरराज विभाति (च) कौमुद्यत्यन्तवपिनो भाति [?] ।
रायनृप कौमुदी वा कीर्तिस्ते सर्वदा भुवने॥ ३८ ॥ उपमानोपमेययोः सदशरूपशब्दवाच्यत्वात् संतानोपमा ।
क्षीराब्धिना समानापि कीर्तिस्ते शीतभानुना।
क्षीराब्धिः पीडितो देवैः सकलङ्कः सुधाकरः ॥३९॥ निन्दोपमा ।
क्षीराब्धिरमृतस्थान चन्द्रः संतापहृत् सदा ।
क्षीराब्धिचन्द्रौ त्वत्कीर्त्या सदृशौ राय धीधन ॥४०॥ प्रशंसोपमा।
8. In Kāvyādars'a this variety of Upamā is known as Samanopara ( v.1. सन्दानोपमा, सरूपोमा)
For Private and Personal Use Only