________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX, 33 ]
९. अलंकारनिर्णयः
महाभागस्य रायस्य कामं दोग्धि महान्करः । कामधेनुरिवाशेषजगदानन्ददायिनः ॥ २६ ॥ कामधेनौ कामदोहकत्वप्रसिद्धिः । विपर्यासेन हस्ते निरूप्यत इति विपर्यासोपमा ।
कादम्बनाथ कीर्तिस्ते शारदी कौमुदीव सा ।
शारदी कौमुदी भाति त्वत्कीर्तिरिव विष्टपे ।। २७ ।। परस्परोत्कर्षशंसिनी चान्योन्योपमा ।
श्री राय कीर्तिजालं ते तुल्यं क्षीराब्धिनैव तत् । अन्येन केनचित् साम्यं न प्रयाति जगत्त्रये ॥ २८ ॥ परवस्तुसादृश्य व्यावृत्ते नियमोपमा ।
कादम्बेश्वर कीर्तिस्ते चन्द्रातपसमाभक्त् ।
अस्ति चेत् सदृशं वस्तु तत्समापि विराजताम् ।। २९ ।। अन्यसादृश्यसंभवकथनादनियमोपमा ।
इन्दुमन्वेति कीर्तिस्ते कान्त्या चाह्लादनेन च । भानुमन्वेति तेजस्ते महिमा रागतोऽपि च ॥ ३० ॥ आह्लादनकान्तिमहत्त्वारुणत्वधर्मसमुच्चयात् समुच्चयोपमा । श्रीराय भवतः कीर्तिर्विशाला भवदाश्रया ।
1:
सुधाकराया ज्योत्स्ना भिदैवेयं न चेतरा ॥ ३१ ॥ भेदान्तरनिरासेन अतिशयोपमा ।
त्वत्कीर्तावेव धावल्यं न कौमुद्यां तदस्ति चेत् । शारदाभ्राभ्रगङ्गादावपि श्रीराय विद्यते ॥ ३२ ॥ साधारणधावल्यस्य अन्यथाकल्पनादुत्प्रेक्षोपमा । शारदी कौमुदी सप्तवाधिं यदि विलङ्घते । वर्तते यदि नित्यं साधत्तां कीर्तेस्तवोपमाम् ॥ ३३ ॥
१. निर्मितेनियमोपमा ।
For Private and Personal Use Only
५७