________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- VII. 16 ] ७. वृत्तिनिश्चयः
ईषन्मृदुसंदर्भाप्यतिप्रौढार्थगोचरा ।
मध्यमारभटी सर्वरससाधारणा स्मृता ॥१५॥ शब्दगतप्रसादमाधुर्यादिदशगुणाश्रितानामर्थविशेषनिरपेक्षाणां वैदभ्ादिरीतीनामर्थविशेषापेक्षविशिष्टकैशिक्यादिवृत्तिभ्यो भेदो द्रष्टव्यः ।
असंयुक्तमृदुवर्णबन्धोऽतिमृदुसंदर्भः। संयुक्तकोमलवर्णबन्ध ईषन्मृदुसंदर्भः। अविकटपरुषवर्णबन्ध ईषत्प्रौढसंदर्भः। प्रागुक्तसंदर्भचतुष्टयस्य लक्षणचतुष्टयं ज्ञातव्यम् । सद्वृत्तिबालविलसद्भगणप्रभावे
सत्काव्यबन्धगगने तव कीर्तिचन्द्रः । लोकस्य तापहरणे चतुरो मनोज्ञः । 'कादम्बनाथ चिरकालमयं विभातु ॥१६॥
इति वृत्तिनिश्चयो नाम सप्तमः परिच्छेदः ।
१. नादञ्जनाथ ।
For Private and Personal Use Only