________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
शृङ्गारार्णवचन्द्रिका [ VII. 10:-- कैशिकी यथा - शृङ्गारसारतरुणीजनकोमलाङ्ग
सर्वस्वचारुवनवृन्दवसन्तकल्पः । नारीकटाक्षशरजालविताड्यमानः
श्रीरायनायकवरः सुकृतीति भाति ॥१०॥ आरभटी यथा - घण्टाटङ्कारभीकृद्रणपटुतरगन्धेभविभ्राजमानः
कोपाजापेन राजत्प्रलयगतमहावह्निकीलाभकेन । धिक्कुर्वन् वैरिवगं गुरुविपिनसमं शाकिनीढाकिनीभ्यो
दत्त्वा रक्तास्थिमज्जाबहुपललबलि भाति रायो रणाग्रे॥११॥ भारती यथाकीर्तिस्तेऽप्यतिलवते जगदिदं गम्भीरिमा वारिधिं
हस्तः कल्पतरु पराक्रमगुणः कण्ठीरवं धीरता। स्वर्णादिं नयजालमुग्रभरतं सत्यं च भीमाग्रज
रूपं मन्मथभूभुजं मृदुवचःपीयूषपिण्डं नृप ॥१२॥ सात्वती यथासंग्रामाङ्गणभूतले प्रलयकालाग्निस्फुलिङ्गाकृति
क्रोधाडम्बररक्तलोचनयुगं श्रीरायचक्रेश्वरम् । दृष्ट्वा वैरिनृपा भयज्वरवशान्मूर्च्छन्ति केचित् परे ।
दानन्ति प्रतपन्ति यान्ति शरणं वल्मीकवीराधिकम्(?)॥१३॥ अत्यन्तकोमलार्थार्थेऽल्पप्रौढसंदर्भलक्षणा। मध्यमा कैशिकी सर्वरससाधारणा मता ॥१४॥
-
-
-
-
१. नयजालमुदघभरतं ।
For Private and Personal Use Only