________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- VI. 9 ]
रीतिनिश्चयो नाम
षष्ठः परिच्छेदः रीतिशून्या यथा कन्या न मान्या धरणीतले । तथा काव्यं रीतिशून्यं न मान्यं रसिकर्जनैः ॥१॥ रीतीनां लक्षणं तस्माद् वर्ण्यते भेदसंगतम् । शृणु रायनराधीश काव्यसारविशारद ॥२॥ माधुर्यादिगुणोपेतपदानां घटनात्मिका। रीतिरित्युच्यते सा च चतुर्भेदा सतां मता ॥३॥ वैदर्भी-गौडिका-लाटी-पाञ्चालीति चतुर्विधा । इयं रीतिश्च काव्यस्य स्वरूपमिति बुध्यताम् ॥४॥ शब्दाश्रितप्रसादादिगुणवैशिष्टयसंभवात्। रीतेः काव्यस्वरूपत्वं निश्चितं कविपुङ्गवैः ।।५।। प्रसादादिगुणोपेता समासरहिताथवा । समस्तद्वित्रपदका स्वल्पघोषाक्षरावली ॥६॥ वर्गद्वितीयबहुला वैदर्भी रीतिरिष्यते । उदाहरणमेतस्याः कथ्यते शृणु धीधन ॥७॥ छत्रं सितं दण्डयुतं धृतं ते सनीलरत्नं कृपराय भाति । सचञ्चरीकं खरदण्डमब्जं सितं यथा राज्यपदस्य चिह्नम् ॥८॥ ओजःकान्तिगुणोपेता महाप्राणाक्षरान्विता। अत्यद्भुत (?अत्युद्भट)समासा च गौडी रीतिरितीष्यते ॥९॥ कल्पान्तानिलवेगणितचलत्तुङ्गोरुभृङ्गावली
राजद्भीकरशीकरान्वितमहाडिण्डीरपिण्डाकरः । ।
For Private and Personal Use Only