________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
शृङ्गारार्णवचन्द्रिका [VI. 10 - श्रीमद्भरिमहासमुद्रसमसेनानीकसंभूतधू
लिजालस्थगितांशुमालिकिरणो जेजीयते रायराट् ॥१०॥ सुकुमारत्वमाधुर्यकान्त्योजोगुणसंयुता। पञ्चषट्पदसंक्षिप्ता पाञ्चाली रीतिरुच्यते ॥११॥ नानारत्नविराजमानमुकुटो हारावलीभूषितो ।
राजद्राजकदम्बपूजितपदो गाम्भीर्यवीर्यान्वितः । त्यागोपात्तविशालकीर्तिविसरः सिंहासनाधीश्वरो
जीयाद् वीरनृसिंहरायनृपतिः संसारसारोदयः ॥१२॥ उक्तरीतित्रययुता भूरिद्वित्त्वाक्षराच्युता। अल्पघोषाक्षरा लाटी वृत्तिः कोमलतायुता ॥१३॥ गङ्गातुङ्गतरङ्गशारदघनक्षीराब्धिचन्द्रातपः
श्रीराजद्वरकीर्तिभासुरगुणो गम्भीरचित्तस्मरः । नानावाग्मिकवीश्वरस्तुतगुणः सर्वज्ञकल्पो महान्
श्रीवीरो नरसिंहबङ्गनृपतिर्जीयाद्धरित्रीतले ॥१४॥ शृङ्गारः करुणः शान्तो हास्यो मधुरतागुणः । ओजोगुणयुताः शेषा रसाः पञ्च निरूपिताः ॥१५॥ प्रसादगुणसंयुक्ता रसाः सर्वे नव स्मृताः । शेषाः सप्तगुणा योज्या यथायोगं विशारदः ॥१६॥ रीतिनीरेजषण्डेद्धमहाकाव्यसरोवरे । कुरु केलीविधि राजहंसदेशीयरायराट् ॥१७॥
इति रोतिनिश्चयो नाम षष्ठः परिच्छेदः ।
१. कुमायौं सुकुमारत्वं
For Private and Personal Use Only