________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४६.
शृङ्गारार्णवचन्द्रिका [v. 29 - मृदुस्फुटोभयाकारवर्णविन्यासशालिनः । बन्धस्य साम्यं समता कथ्यते कविकुञ्जरैः ॥२९॥ श्रीरायबङ्गकान्ताया वदनं चन्दिरायते । हासो ज्योत्स्नायते नेत्रयुग्मं नीलोत्पलायते ॥३०॥ एतैर्गुणैर्भासुरकाव्यबन्धं महाकवीनां मृदु वाग्विलासम् । श्रुत्वा गुणौघं परिभाव्य चित्ते श्रीरायबङ्गेन्द्र मुदं प्रयाहि ॥३१॥
इति दशगुणनिश्चयो नाम पञ्चमः परिच्छेदः ।
१. मृदुस्फुटाभयाकार।
For Private and Personal Use Only