________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- V. 28 ] ५. दशगुणनिश्चयः
अन्यवस्तुगुणारोपोऽन्यत्र योऽयं प्रकीर्तितः । स समाधिरिति ज्ञेयः कवितागुणकोविदः ॥२०॥ आरोपादन्यधर्मस्य प्रकृतार्थस्य गौरवम् । समाधिरुच्यते सद्भिरिति वा लक्षणं मतम् ॥२१॥ श्रीरायस्य यशोऽमितं कुसुमितं त्यागाम्भसा तेजसा
नल्पं तत्फलितं विवेकगुणतो ध्वस्तश्च कल्पद्रुमः । खगोऽयं नैरकालराहुरमलस्तद्विक्रमस्तुङ्गतः
सूक्तिः सारसुधा प्रतापतपनो लोकत्रये द्योतते ॥२२॥ पद्ये समासबाहुल्यं गद्ये वा हृद्यमुच्यते।
ओजो गुणः कलाशास्त्रविशारदकवीश्वरैः ॥२३॥ रङ्गत्तुगतरङ्गसंगविलसद्गम्भीर शङ्खध्वनद
___म्भोराशिसमानभोकरमहासेनासमूहाद्भतः । बन्दिवातविनूयमानगुणसन्दोहप्रभावोज्ज्वल:
संग्रामाङ्गणराजमानतुरगो जेजीयते राजराट् ॥२४॥ सरसो यत्र शब्दश्च सरसोऽर्थोऽपि जायते । तन्माधुर्यमिति प्रोक्तं कर्णानन्दविधायकम् ॥२५।। सरसवचनलोला चारुलीला कटाक्षा
मधुरहसनचञ्चद्वक्त्रनीरेजशोभा । मदगजगतिराजपादपङ्केजयुग्मा
रतिसमवरकान्ता रायतोषं तनोति ॥ २६ ।। अर्थानेयत्वमित्युक्ते सुखगम्यत्वमुच्यते । कष्टकल्पनया शून्यमर्थव्यक्तिस्तदेव हि ॥२७॥ श्रीरायकीर्तिजालेन व्याप्तं जगदिदं सदा। शरच्चन्द्रिकया व्याप्तमिवाभाति मनोहरम् ॥२८॥
१. धर्मप्रकृतार्थस्य, २. वर, ३. शुभद्दनिद्दांम्भो ।
For Private and Personal Use Only