________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [V. 11 - परस्परं प्रयुक्तानि स्यूतानीव पदानि वै । निबिडानि प्रवर्तन्ते यत्र स श्लेष उच्यते ॥ ११ ॥ यस्योत्तुङ्गविशालकीर्तिविसरं दृष्ट्वा जगन्मोदते
क्षीराब्धिदिगिभो महाधवलिमा व्योमापगाबन्धुरा । नानाकारविचित्रशारदमहामेघावलीप्रोल्लस___ कैलासाचलंभूतिसारमिति तां मत्वा जगज्जृम्भितम् ॥१२॥ अल्पप्राणाक्षराण्येव निबिडानि पदानि वै ।
यत्र स श्लेष इति वा केचिल्लक्षणमूचिरे ॥१३॥ तदुदाहरणमिदम्
उल्लसन्ती त्वदीयेयं कीर्तिश्रीर्मूर्तिराजिनी। जगतिकवीन्द्राणां सूक्तिजाले प्रकाशते ॥१४॥ प्रयुक्तो लौकिकार्थोऽपि यथा भवति सुन्दरः । सा कान्तिरुदिता सद्भिः कलागमविशारदैः ॥१५॥ अथवा पदबन्धस्योज्ज्वलत्वं कान्तिरुच्यते । उदाहरणमेतस्या गीयते शृणु भूपते ॥१६ उपवनजलकेलीसक्तकान्ताजनानां
करकृतजलसेकः सौधधारानिषेकः । विगलितकचबन्धान्मालतीमालिकाया
विगलनमतितोषं रायबङ्गे व्यदत्त ॥१७॥ प्रयुक्तस्य पदस्यार्थो यतः शीघ्रं प्रतीयते । पदेन वा प्रसन्नोऽर्थो यत्र सा वा प्रसन्नता ॥१८॥ भो रायबङ्ग कीर्तिस्ते शरदभ्रविलासिनी। व्योमगङ्गाप्रवाहाभा बम्भ्रमीति जगत्त्रये ॥१९॥
१. भूरिसारमिति का मत्वा ।
For Private and Personal Use Only