________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-V. 10 ]
दशगुणनिश्चयो नाम
पञ्चमः परिच्छेदः गुणरीतिवृत्तिशय्यापाकानां लक्षणं मया । तल्लक्षणार्थिनां नृणां बोधाय प्रतिपाद्यते ॥१॥ निर्गुणा रमणी लोके यथा सद्भिर्न पूज्यते । निर्गुणः काव्यबन्धोऽपि ता नार्यः कवीश्वरैः ॥ २॥ अतो गुणाः प्रकीर्त्यन्ते पूर्वशास्त्रानुसारतः । कामिराय नराधीश श्रूयतां भवताधुना ॥३॥ सुकुमारत्वमौदार्य श्लेषः कान्तिः प्रसन्नता । समाधिरोजो माधुर्यमर्थव्यक्तिस्तु साम्यकम् ॥ ४ ॥ एते दशगुणाः प्रोक्ता दश प्राणाश्च भाषिताः । यथासंख्यं मया तेषां लक्षणं प्रतिपाद्यते ॥ ५ ॥ श्रुतिचेतोद्वयानन्दकारिणां कोमलात्मनाम् । वर्णानां रचनान्यासः सौकुमार्यं निरूप्यते ॥६॥ श्रीरायवङ्गक्षितिनायकस्य कीर्तिविशाला वरचन्द्रिकैव । न चेत् त्रिलोकीजनचित्तजातं संतापजालं क्व निराकरोति ॥७॥ अर्थचारुत्वगमकं पदान्तरविराजितम् । पदानां यदुपादानं तदौदार्य मतं यथा ॥८॥ शब्दानामभिधेयानां गुणोत्कर्षा यदाथवा । तदौदार्य मतं लोके तदुदाहरणं यथा ॥९॥ कादम्बनाथस्य मदान्धशूरक्षोणीधरोत्तुङ्गमहागजेन्द्रः । दिग्दन्तिनैरावतनामकेन स्पर्धा विधत्ते जगदद्भतोऽसौ ॥१०॥ १. जाता, २. गुणोत्कर्षाय योऽथवा, ३. दिगंतिनैरावत । ..
For Private and Personal Use Only