________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- IV. 155 ] ४. नायकभेदनिश्चयः
कृताश्रूणां शङ्कादीनां सांकर्य रमणीजने। किलकिञ्चितमित्युक्तं शृङ्गाररसकोविदैः ॥१४७॥ कादम्बनाथमदनेन सुधाधरेऽलं
संपीडिते मधुरचुम्बनपानपूर्वम् । तन्वी तनोति मुदमश्रु च तर्जनं च
सीत्कारताडनविनोदपदप्रहारात् ॥१४८॥ नाथस्य चित्रे वस्त्रे च प्रतिमाभरणादिषु । नाथभावेन या बुद्धिः सा मोट्टायितमुच्यते ॥१४९॥ स्मृत्वा निजेशं स्वाङ्गस्य भङ्गो जृम्भणपूर्वकः । पृष्ठादिनमनादिर्वा मोट्टायितमुद्गीरितम् ॥१५०॥ रायरूपपटीं दृष्ट्वा तन्वी मोहेन चुम्बति । आलिङ्गति च रायेन्द्र इति मत्वा प्रमोदिनी ॥१५१॥ आलीजनेन नृपकुञ्जररायबङ्गे
संवणिके मनसि तत्स्मरणं विधाय । गात्रं विवर्तयति बाहुयुगं च तन्वी - 'वक्रं करोति मदनग्रहपीडिता सा ॥१५२॥ आलिङ्गने चुम्बनादौ कृते वा जीवितेशिना । अन्तरङ्गे सुखं बाह्ये रोषः कुट्टमितं यथा ॥१५३॥ आलिङ्गय चुम्बति नृपे सति रायबङ्गे
नारी मनोजसुखवाधिगतापि चित्ते । हस्तेन कम्पनयुतेन निवारयन्ती
रोषं करोति पुलकालिविराजमाना ॥१५४॥ गर्वगौरवमालम्ब्य तरुण्यानादरः कृतः । जीवितेशे स बिब्बोकः कथ्यते रसिकैर्जनैः ॥१५५॥
१. चक्र।
For Private and Personal Use Only