________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गाराणवचन्द्रिका [IV. 121 - चित्तशृङ्गारभूतोऽयं भ्रलोचनविकारकृत् । भाव एव बुधैर्लोके हावालङ्कार उच्यते ॥ १२१ ॥ आस्येन्दुनिर्गतमनोहरचन्द्रिकाभैः - पुष्पेषुबाणसदृशैस्तरलैः कटाक्षैः । शृङ्गारभावगमकैर्नुपरायबङ्ग
नारी भवन्तमवलोक्य सुखाब्धिगाभूत् ॥ १२२ ॥ शृङ्गारगमको हावो यः सुस्पष्टः प्रवर्तते । स एव हेला विबुधैः कथ्यते गुणराजितैः ॥ १२३ ॥ चकोरीसदृशीदृष्टिकटाक्षायतजिह्वया । रमण्या तव रायेश रूपं पेपीयतेऽमृतम् ॥ १२४ ।। रूपोपभोगतारुण्यैः शरीरालंकृतिः कृता । या सैव शोभा गदिता महाकविमतानुगैः ॥ १२५ ॥ तरुण्या रूपसौन्दर्य स्मरचेतोहरं वरम् । दृष्ट्वा चित्रीयते रायो भूषणापेक्षया विना ॥ १२६ ॥ मनोरागेण निबिडा सैव शोभा निगद्यते । कान्तिः स्त्रीणां मनोजाज्ञाशालिनीनां बुधोत्तमैः ॥ १२७ ॥ आरामकुञ्जगतमुग्धसती बिभेति
ध्वान्ते गते निजकटाक्षमयूखजालैः । पादाब्जचारुनखदीधितिभिश्च राय
बङ्गान्विता सुरतकेलिविदः सकाशात् ॥ १२८ ॥ विस्तारं याति या कान्तिः सैव दीप्तिर्मता सताम् । पुष्पायुधमहासेनादेश्यस्त्रीषु प्रवर्तते ॥ १२९ ॥ श्रीरायबङ्गसहिता गुरुतुङ्गसौध
मारुह्य मारतरुणीनिभकोमलाङ्गी । सिंहासने स्थितवती निजदेहदीप्त्या
काशं प्रकाशयति चारुतडिल्लतेव ॥ १३०॥ "
For Private and Personal Use Only