SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७ - IV. 120 ] ४. नायकभेदनिर्णयः आसां स्त्रीणां सखी दासी लिङ्गिनी प्रतिवेशिनी। धात्रेयी शिल्पिका कारूर्दूत्यः प्रोक्ताः स्वयं तथा ॥ १११ ॥ भो भो राय मनोजपातकमहो क्रूरेण संपीड्यते नारी मुञ्चति वाग्विलाससरणीं धत्ते तनुत्वं तनोः । आहारोऽपि न रोचते भ्रमवशा त्वद्भावचित्रं दृशा दृष्ट्वाऽलिङ्गति चुम्बति त्वरितमागत्येह तां रक्षतात्॥११२॥ पूर्वोक्तनायिकानां तु यौवने सत्त्वसंभवाः । अलङ्काराः प्ररूप्यन्ते विंशतिः कविकुञ्जरैः ॥ ११३ ॥ भावहावौ तथा हेला शोभा कान्तिश्च दीप्तिका। मधुरत्वं तथा चोक्तं प्रागल्भ्यं च वदान्यता ॥ ११४ ॥ धैर्य लीला विलासश्च विच्छित्तिविभ्रमस्तथा। किलकिञ्चितमप्युक्तं तथा मोट्टायितं तथा ॥ ११५ ॥ अथ कुट्टमितं चोक्तं बिब्बोको ललितं ततः । विहृतं परिकीर्त्यन्ते लक्षणानि पृथक पृथक् ॥ ११६ ॥ एषामाद्यास्त्रयो देहसंभवाः कथितास्ततः । सप्तालङ्कृतयो गीतास्ततः स्वाभाविका दश ।। ११७ ॥ चित्तवृत्तिविशेषोऽयं कन्दर्पविकृतिच्युतः । सत्त्वं तस्याद्यविकृति वो मन्मथयोगिनी ॥ ११८ ॥ भाविहावाद्यलङ्कारसाधनीभूत उच्यते । भावोऽयं सर्वशृङ्गाररसहेतुश्च कोविदः ॥ ११९ ।। जात्यश्वारूढरायं पुरसरणिगतं राजकन्या विलोक्य भ्रूविक्षेपाक्षिलौल्यं कुसुमशरशराघातसंपीड्यमानाः । मन्दं मन्दं स्वचेतो विशदपि नवपुष्पायुधाश्चारुरूपा रंरम्यन्ते मनोज्ञप्रकटितनिजलावण्यभाजो गृहाग्रे ॥१२० ॥ १. त्वरितागत्य प्राण रक्षतात् । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy