________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
३६
शृङ्गारार्णवचन्द्रिका'
मनसिज तव कार्यं मन्मथो वेत्ति सर्व
महमपि तव काये गोपिते वेद्मि किंचित् । 'अनिकटनिवासी वामपादोऽपितोऽस्या
[ IV. 100 -
विलसदरुणवर्णो दश्यते राय साक्षात् ॥ १०० ॥ नाथं सरति या नारी दूतीं वा सारयत्यसौ । प्रोक्ताभिसारिका लोके नायिकाभेदवेदिभिः ॥ १०१ ॥ वञ्चित्वात्मीयलोकं या पतिं गच्छति सागसम् । सा रायबङ्गभूमीशशासनाद्भीतिमृच्छति ॥ १०२ ॥ रसप्रकरणे प्रोक्तश्चतुर्धा विप्रलम्भकः । पूर्वानुरागो मानश्च प्रवासः करुणात्मकः ॥ १०३ ॥ वियुक्तनायकस्यासौ वियुक्तायाः स्त्रियोऽपि च । शृङ्गारो विप्रलम्भाख्यो वक्तव्यो वदतां वरैः ॥ १०४ ॥ नवीनालोकनाज्ञातरागयोरवितृप्तयोः । पूर्वानुरागो दम्पत्योरवस्था परिकीर्त्यते ॥ १०५ ॥ अन्यस्त्रीसंगमादीर्ष्या विकारो मान उच्यते । परदेशं गते नाथे प्रवासो विरहात्मकः ॥ १०६ ॥ अनुरक्तस्य नाथस्य नायिकायाश्च तादृशः । एकस्य मरणे जातः शृङ्गारः करुणात्मकः ॥ १०७ ॥ खण्डितायां नायिकायां शृङ्गारो मान उच्यते । प्रोषितप्रियनारीषु प्रवासः परिकीर्तितः ॥ १०८ ॥ कलहान्तरिता या वा विप्रलब्धा च या सती । विरहोत्कण्ठिता या च तासु पूर्वानुरागकः ।। १०९ ।। परलोकं गते नाथे कामिन्यां वा प्ररूप्यताम् । अवशिष्टजने सद्भिः शृङ्गारः करुणात्मकः ॥ ११० ॥
१. अनिकतउनिवासी वामपादापितोऽस्या ।
For Private and Personal Use Only