________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
~ 1V. 65 ]
४. नायकभेदनिश्चयः
कलाप्रौढियता धैर्यराजिता दम्भपण्डिता । वेश्या साधारणा प्रोक्ता नायिका विदुषां वरैः ॥ ५७ ॥ दातैव नायकस्तस्या न हि कश्चित् परो भुवि । रक्तेव सदने पुंसि निर्धनं वर्जयेन्नरम् ॥ ५८॥ कादम्बनाथनृप चारुमहासमृद्ध
वेश्याजना रतिसमानमनोज्ञरूपाः । कामैन्द्रजालिककृताद्भुतमोहविद्या- कल्पा विभान्ति कुसुमास्त्रशरोघदेश्याः ॥ ५९॥ स्वकीया नायिका मुग्धा मध्या लोके तथा मता। प्रगल्भेति त्रिधा सद्भिस्तासां लक्षणमुच्यते ॥६० ॥ नवीनयौवना नारी नवमन्मथविक्रिया। वक्रा सुरतलीलायां मुग्धा किंचिद् रुषा युता ॥ ६१ ॥ आस्यं नापि ददाति चुम्बनविधौ स्वाङ्गं निजालिङ्गने
नो धत्ते नवमन्मथग्रहयुता लज्जाभरात् कुप्यति । क्षेत्रारम्भसमानयौवनयुता कन्या नवोढा सती
रायक्ष्मापतिनायकस्य जनयत्युल्लासनं चेतसि ॥ ६२॥ उत्पन्नयौवनोद्भूतकामा मध्या च नायिका। रतिक्रियापरवशा न जानाति किमप्यसौ ॥ ६३ ॥ चुम्बन्तं परिरम्भणं दृढतरं कुर्वन्तमङ्गोद्भवं
श्रीरायं निजनायकं परमसंतोषं नयन्ती सती। शृङ्गाराम्बुधिकौमुदी. रतिसुखाम्भोधौ निमग्ना परं
नो जानाति सुखातिरेकवशगा केलि परां कामपि ॥६४॥ अत्यन्तयौवनात्यन्तकामा नायकवक्षसि । लीनेव सुरतारम्भे प्रगल्भा पारतन्त्र्यभाक् ॥ ६५ ॥
१. महासवेश्याजनारति । २. शवाघ । ३. केशि ।
For Private and Personal Use Only