SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir ३२ शृङ्गारार्णवचन्द्रिका [ IV. 66 - श्लिष्यन्तं स्मररायनायकवरं स्पृष्ट्वा प्रगल्भा सती मोहोद्रेकवशात् परं परवशा केलीविधौ राजते । लक्ष्मीर्वक्षसि वा स्मरेशलिखितं तज्जीव ( ? सज्जीव) चित्रं रते: शृङ्गाराम्बुधिजातनिश्चलतरा श्रीकल्पवल्लीव सा ॥ ६६ ॥ धीरात्वधीरा लोके हि धीराधीरेति सा मता । त्रिविधा नायिका मध्या गुणशालिकवीश्वरैः ॥ ६७ ॥ उपहास युता या च वक्रवाचा स्वनायकम् । खेदयेत्सापराधं सा मध्या धीरा प्ररूप्यते ॥ ६८ ॥ श्रीराय ते नभसि वक्षसि कौमुदीयं भाले वरे मकरिका वरवज्रमस्ति । तत्पुण्यमत्र महदस्ति तथा फलं च तत्रैव तिष्ठ न तु मां स्पृश याहि याहि ॥ ६९ ॥ सापराधं निजेशं या वचसा कर्कशेन हि । रुदती भेदयेत् सा त्वधीरा मध्या मता यथा ॥ ७० ॥ श्रीरायं निजगेहमागतमिमं दृष्ट्वा सतीत्यब्रवी न्नाथात्रागमनं नवीनमिदमाश्चर्यं च पुण्यं मम । • "मौक्तिकं विचकिलसग्गन्धवत्रं त्वया धन्याहं सुकृती त्वमेव भुवने नेत्रावारान्विता ॥ ७१ ॥ प्रगल्भा नायिका त्रेधा धीराधीरे पुनस्तथा । धीराधीरेति कथिता नेतृनिश्चयकोविदैः ॥ ७२ ॥ कृतापराधं सुरते नायकं दुःखयेद् रुषा । या च या वादरेणास्ते सावहित्था सकोपना ॥ ७३ ॥ तादृशं प्रति भर्तारं सावशा वा प्ररूप्यते । प्रगल्भधीरा भुवने कामसिद्धान्तवेदिभिः ॥ ७४ ॥ १. जा । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy